प्रधानमन्त्री नरेन्द्रमोदी काशीधामसंपथः अद्य राष्ट्राय समर्पितवान्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, December 13, 2021
Sunday, December 12, 2021
यु एस् राष्ट्रे चक्रवातः। केन्टक्कि देशे पञ्चाशत् जनाः मरणमुपगताः। देशे आपत्कालीनावस्था प्रख्यापिता।
Saturday, December 11, 2021
उदग्रयानदुर्घटना - संयुक्तसेनासङ्घस्य अन्वीक्षणमारब्धम्।
कुनूर् [तमिलनाट्]> भारतस्य संयुक्तसेनामुख्यः जनरल् बिपिन रावतः तस्य पत्नी चाभिव्याप्य १३ सैनिकाधिकारिणाम् अपमृत्योः कारणभूताम् उदग्रयानदुर्घटनामधिकृत्य संयुक्तसेनासंघस्य अन्वीक्षणं दुर्घटनास्थाने आरब्धम्। तमिलनाटे कुन्नूरप्रदेशे घट्टनेन भग्नस्य 'मि 17 वि 5 उदग्रयानस्य ब्लाक् बोक्स् नामकमुपकरणमुपलब्धम्।
वायुसेनायाः परिशीलकप्रमुखः एयर् मार्षल् मानवेन्द्रसिंहस्य नेतृत्वे एव अन्वेषणं सम्पद्यते इति रक्षामन्त्री राजनाथसिंहः संसदि प्रस्तुतवान्। ड्रोणयन्त्राणां साहाय्येन विपुला परिशोधना आरब्धा। वायुसेनाधिकारी एयर् चीफ् मार्षल् विवेकरामचौधरी भग्नस्य उदग्रयानस्य यन्त्रांशान् निरीक्षितवान्।
विश्वविद्यालयेषु सर्वकारस्य हस्तक्षेपः - केरलराज्यपालेन विप्रतिपत्तिः प्रकाशिता।
अनन्तपुरी / केरलम्> केरलराज्यपालेन आरिफ् मुहम्मद् खानेन विश्वविद्यालयेषु सर्वकारस्य कौटिल्येषु हस्तक्षेपेषु विप्रतिपत्तिः प्रकाशिता। घटनां संबन्ध्य तेन केरलस्य मुख्यमन्त्री लेखः दत्तः। विश्वविद्यालयेषु राजनैतिकहस्तक्षेपः अनुवर्तते चेत् कुलपतिपदवीं त्यक्तुं सन्नद्धः इति सः अवदत्। कुलपतेः उत्तरदायित्वं केरलस्य मुख्यमन्त्रिः स्वयं निर्वहतु इत्यपि तेन लेखद्वारा आवेदितमस्ति। कण्णूर्विश्वविद्यालये तथा कालटि श्री शङ्कराचार्य संस्कृतविश्वविद्याये च कुलपतिनियुक्तिविषये सर्वकारस्य हस्तक्षेपः एव एवं वक्तुं राज्यपालाय प्रेरकः अभवत्। विश्वविद्यालयेषु राजनैतिकस्य अतिप्रसरं राज्यपालेन संसूचितम्। विश्वविद्यालयेषु ईदृशरीत्याः अनुवर्तनम् उचितं न भवति। एषा रीतिः भाविनि काले दूरव्यापकप्रत्याघातानि स्रक्ष्यन्ति इत्यपि सः व्यजिज्ञपत्।
Friday, December 10, 2021
सेनानायकाय राष्ट्रस्य अन्त्याञ्जलिः।
नवदिल्ली> गतदिने तमिल्नाट् मध्ये कुनूर् प्रदेशे उदग्रयानदुर्घटनेन मृतस्य संयुक्तसेनाधिपस्य जनरल् बिपिन् रावत् वर्यस्य भौतिकशरीरं तथा तस्य पत्नी मधुलिका रावत् वर्यायाः मृतदेहेन च सम्पूर्णसैनिकादरैः अन्त्येष्टिविधेयमभवत्। दिल्ल्यां ब्रार् चत्वरे चतुर्वादने सहस्राणां सान्निध्ये तयोः पुत्र्यौ कृतिका तरुणी च अन्त्यकर्माणि निरवहताम्।
प्रभाते कामराजमार्गस्थे भवने सामान्यजनानां दर्शनाय तयोः भौतिकशरीरे प्रदर्शयितम्। तदनन्तरं सैनिकाधिकारिणाम् अन्त्योपचारसमर्पणं सम्पन्नम्। ततः त्रिवादने ब्रार् चत्वरं प्रति सहस्राणां जनानामनुगमनेन विलापयात्रा प्रवृत्ता। बहवः देशीयनेतारः जनरल् वर्याय अन्त्याञजलिं समर्पितवन्तः।
Thursday, December 9, 2021
नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च आहताः।
नीलमणि फूकः, दामोदरमौसो वर्याभ्यां ज्ञानपीठपुरस्कारः।
नवदिल्ली> असमीयभाषायाः विख्यातकविः नीलमणि फूकः गतवर्षस्य ज्ञानपीठपुरस्कारेण समादृतः। तथा च सुविदितः गोवन् आख्यायिकाकारः दामोदरमौसोवर्यः अस्य वर्षस्य च ज्ञानपीठपुरस्कारेण सम्मानितः। ११ लक्षं रूप्यकाणि कांस्यनिर्मितः सरस्वतीदेव्याः शिल्पश्च पुरस्काररूपेण दीयते।
'सूर्यहेनु नमि अहे इयि नोदियेदि' [सूर्यः अस्मिन् नदीतटे अस्तमनाय प्राप्नोति], 'कोबिता' इत्येते फूकस्य प्रसिद्धे रचने स्तः। कोबितानामककाव्यसमाहारः १९८१ तमे वर्षे साहित्याक्कादमीपुरस्कारेण सम्मानितः आसीत्। १९९० तमे अस्मै पद्मश्रीपुरस्कारोSपि लब्धः। दामोदरमौसो महाभागस्तु कोङ्कणिभाषायां आख्यायिकाः लघुकथाः बालसाहित्यकृतयः इत्यादीनां रचनया सुप्रसिद्धः भवति। 'कार्मेलिन्' इत्याख्यिकया सः १९८३ तमे वर्षे साहित्य अक्कागमीपुरस्कारेण आदृतः आसीत्।
Wednesday, December 8, 2021
आकस्मिकदुरन्ते भारतीयाः स्तब्धाः।
व्रणितस्य संयुक्तसेनामुख्यस्य बिपिन् रावतस्य अवस्था अतीव गुरुतरा। तं वेल्लिङ्टणस्थं सैनिक आतुरालयं प्राविशत्।
केन्द्रप्रतिरोधमन्त्री राजनाथसिंहः अपघातं सम्बन्ध्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह चर्चित्वानन्तरं वार्तामाध्यमेभ्यः विशदीकरिष्यति। पश्चात् सः नीलगीरिं गमिष्यति। वेल्लिङ्टण् कन्टोन्मेन्ट् मध्ये संगोष्ठ्यां भागं स्वीकर्तुम् एव सेनामुख्यः प्रस्थितः आसीत् इति प्रतिवेद्यते।
नीलगिरौ सैनिकं उदग्रयानं भग्नमभवत्। संयुक्तसेनामुख्यः बिपिन् रावत् तथा अन्ये सेनामुख्याः च उदग्रयाने आसीत्।
कोविडं प्रतिरोद्धुं गवेषकैः चर्वणकं संस्फुटीकृतम्।
वाषिङ्टण्> कोविडस्य व्यापनं निरोद्धुं सक्षमं चर्वणकं (chewing-gum) गवेषकैः संस्फुटी कृतम्। कोविड्वैराणुप्रतिरोधकः सस्यनिर्मितप्रथिनं योजयित्वा एव चर्वणकं निर्मितम्। एतत् मुखस्रावे अन्तर्गतानां वैराणूनां संख्या आकुञ्च्य रोगव्यापनं निरुध्यते। लालाग्रन्थौ (saliva gland) एव वैराणुः बहुलायते। वैराणुं मुखस्रावे निवीर्यं कर्तुं चर्वणकं प्रभवति। रोगव्यापनस्य मूलं निरुध्यमाना ललिता रीतिरेव स्फुटीकृता इति गवेषणाय नेतृत्वं दीयमानेन यु एस् राष्ट्रस्य पेन्सिल्वेनिया विश्वविद्यालयस्थेन हेन्रि डानियेलेन प्रोक्तम्।
Tuesday, December 7, 2021
ओमिक्रोण् : - विदेशराष्ट्रात् मुम्बैः विमाननिलयं प्राप्तवतः १०९ जनान् प्रत्यभिज्ञातुं न शक्यते।
मुम्बै> राष्ट्रं कोविड् ओमिक्रोण् वैराणुव्यापनं विरुद्ध्य जाग्रतायां स्थितायं सत्यां विदेशराष्ट्रतः मुम्बैराष्ट्रं प्रत्यागताः १०९ जनाः अप्रत्यक्षाः अभवन्। विदेशात् आगतानां दूरवाण्याम् समाहूते सति तान् न लभते। दूरवाण्यः सुप्तावस्थायाम् आसन्। तैः दत्ताः सङ्केताः व्याजाः आसन्। 'At Risk' राष्ट्रतः समागताः सप्त दिनं यावन् एकान्ते वासः करणीयः। अष्टमे दिने रोगाणुपरीक्षा करणीया च। तदनन्तरं रोगाणुबाधितः चेदपि सप्तदिनानि यावत् पुनरपि एकान्तवासं करणीयम् इत्यस्ति निर्देशः। मुबैयां द्वयोः ओमिक्रोण् दृढीकृतम् । एवं महाराष्ट्रे आहत्य दशघटनाः दृढीकृताः।
भारते इंदप्रथमतया 'आविश्वशिक्षा नगरम्' इति स्थानप्राप्तये केरल-कर्णाटकयोः नगराणि परिगण्यन्ते।
नवदिल्ली> युनेस्को संस्थायाः आविश्वशिक्षानगर (global learning city) श्रृङ्खलायां केरलतः तृश्शूर्देशः निलम्पूर् देशः तथा कर्णाटकतः वारङ्गल् नगरं च सन्निवेशयितुं केन्द्रसर्वकारेण अनुकूलनिर्देशो दत्तः। अद्यावधि भारतात् किमपि राज्यम् अस्यां पट्टिकायां न अन्तर्गतम्। जनुवरि/ फेब्रुवरि मासाभ्यन्तरे युनेस्को संस्था द्वारा औद्योगिकं विज्ञापनं भविष्यति। तत् पश्चात् बेयूजिङ् (चीनः), आतन्स् (ग्रीस्), डब्लिन् (अयर्लन्ड्), ग्लास्गो (यु के), हांबर्ग् (जर्मनि), ओक्कयाम (जापानम्), मेल्टण् (ओस्ट्रेलिया), सावो पौले (ब्रसीलः), इञ्चियोण् (दक्षिणकोरिया), सुरबाय । (इन्डोनेष्या), इत्यादीनि नगराणि अन्तर्गतायां आविश्वशिक्षानगरपट्टिकायां केरल कर्णाटकयोः नगराणि अपि अन्तर्भविष्यन्ति।
भारते ओमिक्रोणबाधिताः २१; दिल्ली राजस्थाने च स्थिरीकृतः।
नवदिल्ली> कर्णाटकं, महाराष्ट्रं, गुजरात् राज्यानि अनुगम्य दिल्ली राजस्थानराज्ययोरपि ओमिक्रोणः स्थिरीकृतः। १८ जनाः नूतनतया ओमिक्रोणबाधिताः जाताः। आफ्रिक्कास्थात् टान्सानियाराष्ट्रात् दिल्लीं प्राप्तः कश्चन ३७ वयस्कः, महाराष्ट्रे ७ जनाः , राजस्थाने नव जनाश्च गतदिने रोगबाधिताः अभवन्।
Monday, December 6, 2021
युक्रैन् राष्ट्रस्य सीमनि पादोनद्विलक्षं सैनिकाः तथा दूरवेधिन्यः च रष्येण विन्यस्ताः।
वाषिङ्टण्> युक्रैन् सीमनि रष्यया पादोनद्विलक्षं सैनिकान् तथा दूरवेधिन्यः च विन्यस्य अधिनिवेशाय सज्जीकरणानि करोति इति सूचना। जनुवरि मासे युक्रैन् राष्ट्रस्योपरि रष्यस्य सेनायाः आक्रमणं भविष्यति इति यु एस् गुप्तान्वेषणविभागस्य सूचना लब्धा इति वाषिङ्टण् पोस्ट् वार्ताहरैः प्रतिवेदितम्। सीमानिकटे रष्येण लक्षशः सैनिकाः विन्यस्ताः। आगामिनि मासे स्वराष्ट्रस्योपरि आक्रमणं भवेत् इति युक्रैन् प्रतिरोधमान्त्रिणा ओलेक्सिय् रेस्निकोवेन पूर्वम् सूचितमासीत्। नाट्टो सेनायां भागं स्वीकर्तु युक्रैनाय अनुमतिः न दातव्या इति रष्यस्य राष्ट्रपतिना व्लाडिमर् पुतिनेन यु एस् राष्ट्रपतये बैडनाय आदेशः अपि दत्तः आसीत्। तत्पश्चात् एव नूतनप्रतिवेदनम्।
Sunday, December 5, 2021
ओमिक्रोणः ३८ राष्ट्रेषु, मरणं न विज्ञापितम्।
जनीवा> कोविड्विषाणोः नूतनः प्रभेदः ओमिक्रोण् नामकः आविश्वं ३८ राष्ट्रेषु विज्ञापितः इति विश्वस्वास्थ्यसंघटनेन निगदितम्। मरणं एतावत्पर्यन्तं (कस्मादपि प्रदेशात्) न आवेदितम्। यू एस् , आस्ट्रेलिया राष्ट्रयोः प्रादेशिकव्यापनं स्थिरीकृतम्। अमेरिक्कायां १० राज्येषु रोगः व्यापृतः।
'जवाद्' चक्रवातः दुर्बलोऽभवत्; आशङ्का दूरीकरोति।
भुवनेश्वरं> ह्यः ओडीशा-आन्ध्रप्रदेशतीरं संप्राप्तः जवादचक्रवातः दुर्बलः अभवत्। रविवासरे यदा पुरीं सम्प्राप्नोति तदा न्यूनमर्दरूपेण परिवर्त्य वृष्टेः कारणं भविष्यति इति पर्यावरणविभागेन स्पष्टीकृतम्।
प्रतिहोरां ४ कि मी वेगेनैव इदानीं वातः सञ्चरति इत्यतः आन्ध्रः, ओडीषा, पश्चिमवंगः इत्येतानि राज्यानि आश्वस्तानि वर्तन्ते।
महाराष्ट्रेषु अपि ओमिक्रोण् वैराणुः दृढीकृतः। राष्ट्रे चतुर्थतमं प्रकरणं भवति एतत्।
मुम्बै> कर्णाटकां गुजरात्तं च अतिरिच्य महाराष्ट्रेषु अपि कोविडस्य ओमिक्रोण् विभेदः (बि१.१.५२९) दृढीकृतः। मुम्बैनगरे कल्याण् डोंबिवालि नगरपालिका प्रदेशे दक्षिणाफ्रिक्कादेशात् आगते पुरुषे एव रोगः निर्णीतः। एवं राष्ट्रे ओमिक्रोण् विभेदं दृढीकृतानां संख्या चतस्रः अभवत्। त्रयस्त्रिंशत् वयस्कः एषः नवम्बर् मासस्य २३ तमे दिने एव दक्षिणाफ्रिक्कात् दुबाय् मार्गेण दिल्लीविमानपत्तनं प्राप्तः। तत्रतः विमानमार्गेण मुम्बै देशं प्राप्तः। तेन साकं यात्रां कृतवतां प्रत्यभिज्ञातुं परिश्रमः अनुवर्तते इति महाराष्ट्रस्य स्वास्थ्यविभागस्य निदेशिकया डो. अर्चना पाडील् महाभागया आवेदितम्।
Saturday, December 4, 2021
वायुसेनायाः मिराष् युद्धविमानस्य चक्रं अपहृतम्। आरक्षकैः अन्वेषणं समारब्धम्।
लख्नौ> मिराष् युद्धविमानस्य चक्रेषु एकम् अपहृतम्। जोड्पूरस्थे वायुसेनापत्तनेषु प्रेषणाय लख्नौदेशस्य बक्षि तलाब् वायुसेनानिस्थानात् (Air base) भारवाहकयानद्वारा सैनिकोपकरणानि प्रेषितानि आसन्। तस्मात् भारवाहकयानात् एव चक्रेषु एकं विनष्टम् अभवत्। स्कोर्पियो याने आगतः संघः एव चौर्यकर्म कृतम्। ते अद्यावधि न प्रत्यभिज्ञाताः। लख्नौदेशमध्ये गमनागमनसम्मर्दे यानगमनावसरे एव चौर्यं कृतम्। यानचालकः बहिः आगतः तथापि चोराः अप्रत्यक्षाः अभवन्। रात्रौ १२.३०-०१.०० मध्ये एव चोरणं कृतम् इति यानचालकेन आरक्षकं प्रति न्यवेदयत्।
Friday, December 3, 2021
ओमिक्रोणः अतिशीघ्रं व्याप्यते; २४ राष्ट्रेषु वैराणुः स्थिरीकृतः।
जोहनास्बर्ग्> दक्षिणाफ्रिक्कराष्ट्रे ओमिक्रोणवैराणुः अतिशीघ्रं व्याप्यते। २४ होरासु रोगबाधितानां संख्या द्विगुणा अभवदिति अधिकृतैरुक्तम्। बुधवासरे ओमिक्रोणबाधिताः ४३०० जनाः आसन् । ह्यः ८५०० जनाः रोगबाधिताः अभवन्।
अद्यावधि २४ राष्ट्रेषु ओमिक्रोणः दृढीकृतः। अमेरिक्का, स्पेयिन्, भारतम् इत्यादीनि इत्यादीनी नूतनानि रोगस्थिरीकृतराष्ट्राणि भवन्ति।
उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः छात्रस्योपरि आक्रमणं कृतवान्।
लख्नौ> उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः (Leopard) छात्रस्योपरि आक्रमणं कृतवान्। अलिगढस्थे चौधरि निहाल सिंह कलालये एव घटना एषा आपन्ना। लक्कि राजसिंहः नाम विद्यार्थी एव चित्रकस्य आक्रमणेन व्रणितः। पश्चात् कक्ष्यायाः द्वारं जवेन पिधानीकृत्य चित्रकं कक्ष्यायां बन्धितम्।
छात्रः कक्ष्यायां प्रविष्टे चित्रकम् अपश्यत्। यदा झटिति सः बहिः गन्तुम् उद्युक्तः तदा चित्रकः आक्रमणम् अकरोत्। इति प्राध्यापकेन प्रोक्तम्। व्रणितः छात्रः आतुरालये प्रविष्टः वर्तते।
भारते ओमिक्राण् वैराणुः स्थिरीकृतः।
बाङ्गूर्> राष्ट्रे प्रथमतया ओमिक्रोण् विभेदः दृढीकृतः। विदेशात् कर्णाटकाराज्यं प्रति आगतः दक्षिणाफ्रिक्कानागरिकस्य तथा तस्य सम्पर्केण एकस्य वैद्यस्य च कोविडस्य नूतनविभेदः स्थिरिकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्।
नवम्बर् ११ तमे दिने १२ तमे दिने च बाङ्गूर् देशं प्रति आगतस्य ६६ वयस्कस्य एव रोगः स्थिरीकृतः इति स्वास्थ्यमन्त्रालयस्य उपकार्यदर्शिना लव् अगर्वालेन वार्ता सम्मेलने निगदितम्।
Thursday, December 2, 2021
विवादकार्षिकविधेयकम् अस्तं गतम्।
नवदिल्ली> राष्ट्रपतेः हस्ताक्षरेण विवादकार्षिकविधेयकम् अस्तं गतम्। संसदा अङ्गीकृते निरस्तविधेयके रामनाथ कोविन्दः हस्ताक्षरं कृतवान्। नवंबर् मासस्य नवदश (१९) दिनाङ्के गुरुनानाक जयन्ति दिने कार्षिकनियमानां प्रतिनिवर्तनं भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्। अनन्तरं समारब्धे शैत्यकालोपवेशने प्रथमदिने एव संसद् द्वयेन नियमनिरासाय विधेयकम् अङ्गीकृतम्। अनन्तरं विलम्बं विना राष्ट्रपतेः हस्ताक्षराय समर्पितं च।
Wednesday, December 1, 2021
एलिसबत् राज्ञ्याः शासनं निरस्य बारबडोस् स्वतन्त्रम् अभवत्
ओमिक्रोण् आशङ्काः । वाक्सिनस्य तृतीयमात्रा परिगणनायाम्।
नवदिल्ली> ओमिक्रोण् वैराणुबाधा आशाङ्क्य वयोजनेभ्यः प्रतिरोधक्षमता रहितेभ्यः च वाक्सिनस्य तृतीयमात्रादानं परिगण्यते। प्रतिरोधसूच्यौषधमनुबन्ध्य राष्ट्रिय-प्रौद्योगिकसमितिः अस्मिन् विषये सद्यैव अनुज्ञां दास्यति। कोविड् वैराणु बाधया मृतेषु अधिके वाक्सिनीकरण-रहिताः भवन्ति। कोविड्वैराणोः विभेदं प्रतिरोद्धुं तृतीयमात्रा पर्याप्ता भविष्यति इति प्रतीक्ष्यते। रोगतीव्रतां मरणं च प्रतिरोद्धुं तृतीय मात्रा सहायकरी भविष्यति।
Tuesday, November 30, 2021
राष्ट्रे अद्यावधि ओमिक्रोण् वैराणुः न दृढीकृतः। परिशोधनां वर्धयितुं भारतसर्वकारस्य निर्देशः ।
नवदिल्ली> कोविड्वैराणोः ओमिक्रोण् विभेदः भारते अद्यावधि न दृढीकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन प्रोक्तम्। राज्यस्तरीय स्वास्थ्यविभागस्य प्रतिनिधिमेलने केन्द्रस्वास्थ्य-कार्य दर्शिना एव कार्यमिदं स्पष्टीकृतम्। राज्यसभायां स्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येनापि कार्यमिदम् आवेदितम्। एतदभ्यन्तरे वाक्सिनीकरणं त्वरणीयम् इत्यपि स्वास्थ्यमन्त्रालयेन राज्यानि प्रति अवोचत्। आन्टिजन् तथा आर् टि पि सि आर् द्वारा ओमिक्रोणस्य सान्निध्यं ज्ञातुं शक्यते इति मन्त्रालयेन प्रोक्तम्। विमानपत्तनेषु निरीक्षणं सुशक्तं कर्तुं तथा स्वास्थ्य मन्त्रालयस्य निर्देशं पालयितुं च केन्द्रसर्वकारेण अनुज्ञा दत्ता ।
