OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 8, 2021

 नीलगिरौ सैनिकं उदग्रयानं भग्नमभवत्। संयुक्तसेनामुख्यः बिपिन् रावत् तथा अन्ये सेनामुख्याः च उदग्रयाने आसीत्।


तमिल्नाट्> कुनूर् देशे संयुक्तसेनामुख्येन बिपिन् रावतेन सह याने यात्रां कुर्वन्तः उन्नतसैनिकप्रमुखाः नीलगिरि सानुप्रदेशेकुन्नूर् प्रदेशे उदग्रयानस्य घट्टनेन भग्ने जाते अतिदारुणया रीत्या दग्धवन्तः अभवन्। तेष्वेकः क्याप्टन् वरुणसिंहः अत्यापदि व्रणितः अपि चिकित्सालये यथायथं चिकित्सां स्वीकृत्य अधुना च श्वसिति। सञ्चरितम् उदग्रयानं नीलगिरौ भग्नमभवत्। मध्याह्ने एकवादने एव घटना संवृत्ता। बिपिन् रावत्, तस्य अङ्गरक्षकाः तथा सहायिनः, कुटुम्बाङ्गाः  च उदग्रयाने आसीत् इति ए एन् ऐ वार्ता माध्यमेन प्रतिवेदितम्। बिपिन् रावत्, पत्नी मधुलिका रावत्, ब्रिगेडियर् एल् एस् रिड्डर्, लेफ्. केणल् हर्जीन्दर् सिंहः, ड एन् के गुर्सेवक् सिंहः, एन् के जितेन्द्रकुमारः, लान्स् नायिक् विवेककुमारः, लान्स् नायिक् बि साय् तेज, हवील्दार् सत्पाल् इत्यादयः उदग्रयाने आसन्। चत्वारि मृतशरीराणि उपलब्धानि इति ए एन् ऐ  वार्तादलेन प्रतिवेदितम्। व्योमसेनायाः ए ऐ १७ वि ५ उदग्रयानमेव अपघाते भग्नमभवत् इति व्योमसेनया ट्वीट्ट् कृतम्। अपघातस्य कारणम् अन्वेष्टुं व्योमसेनया निर्देशो दत्तः।