भारत-ईरान-सम्बन्धाः क्षीयन्ते।
होर्मुज़-जलान्तराल-क्षेत्रे भारतं प्रति गम्यमानां वाणिज्य-नौकां प्रति आईआरजीसी (IRGC) आक्रमणम् अकरोत्। तदनन्तरं सेना नौकां निरुध्य ईरान-देशं प्रति अनयत्। एषा नौका दुबई-नगरात् भारतं प्रति प्रस्थिता आसीत्, तस्मिन् अन्तरे आईआरजीसी तस्याः उपरि आक्रमणं कृत्वा स्वाधीनाम् अकरोत्। भारतीय-नौकाश्रयं प्रति गच्छन्त्याः अस्याः नौकायाः ग्रहणेन समुद्र-सुरक्षां तथा च वितरण-शृङ्खलां (Supply chain) प्रति भारतस्य चिन्ता वर्धिता।
कतिपय-दिनेभ्यः पूर्वमपि भारतीय-नौकाः प्रति ईरान-सेनया गोलिकाप्रहरः कृतः आसीत्। अस्मिन् विषये मोदी-सर्वकारेण ईरान-देशाय स्पष्टा सूचना दत्ता आसीत्। ततः परमेव एषः नूतनः घटनाक्रमः जातः। वर्तमानकाले ईरान-अमेरिका देशयोः मध्ये मध्यस्थतां पाकिस्थानं करोति। अतः ईरानस्य एतादृश-प्रवृत्तीनां पृष्ठतः पाकिस्थानस्य हस्तः अस्तीति वार्ताः प्रसरन्ति।
