OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 30, 2021

 राष्ट्रे अद्यावधि ओमिक्रोण् वैराणुः न दृढीकृतः। परिशोधनां वर्धयितुं भारतसर्वकारस्य निर्देशः ।

नवदिल्ली> कोविड्वैराणोः ओमिक्रोण् विभेदः भारते अद्यावधि न दृढीकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन प्रोक्तम्। राज्यस्तरीय स्वास्थ्यविभागस्य प्रतिनिधिमेलने केन्द्रस्वास्थ्य-कार्य दर्शिना एव कार्यमिदं स्पष्टीकृतम्। राज्यसभायां स्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येनापि कार्यमिदम् आवेदितम्। एतदभ्यन्तरे वाक्सिनीकरणं त्वरणीयम् इत्यपि स्वास्थ्यमन्त्रालयेन राज्यानि प्रति अवोचत्। आन्टिजन् तथा आर् टि पि सि आर् द्वारा ओमिक्रोणस्य सान्निध्यं ज्ञातुं शक्यते इति मन्त्रालयेन प्रोक्तम्। विमानपत्तनेषु निरीक्षणं सुशक्तं कर्तुं तथा स्वास्थ्य मन्त्रालयस्य निर्देशं पालयितुं च केन्द्रसर्वकारेण अनुज्ञा दत्ता ।