OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 12, 2021

 यु एस् राष्ट्रे चक्रवातः। केन्टक्कि देशे पञ्चाशत् जनाः मरणमुपगताः। देशे आपत्कालीनावस्था प्रख्यापिता। 


वाषिङ्टण्> यु एस् राष्ट्रस्य दक्षिण पूर्वराज्ये केन्टक्कि देशे आपन्ने चक्रवाते पञ्चाशत् जनाः मारिताः इति राज्यपालेन आन्डि बेषियरेण आवेदितम्। केन्टक्कि देशे राज्यपालेन आपत्कालीनावस्था प्रख्यापिता। मरणं शतपर्यन्तं वर्धते इत्यपि सः अवोचत्। इल्लिनोय्डे आमसोण् पण्याधाने (ware house) शताधिकजनाः बहिरागन्तुम् अशक्ताः भूत्वा बन्धिताः इति प्रादेशिकैः वार्तामाध्यमैः प्रतिवेदितम्। मेय्फिल्डे अपि अतिविनाशः अभवत् इति प्रतिवेदनमस्ति। मेय्फील्डस्थे सिक्तवर्तिकायाः यन्त्राकारः भग्नमभवत्। बहवः जनाः तत्र बहिः गन्तुम् अशक्ताः सन्तः गृहे बन्धिताः इत्येव आशङ्क्यते।