OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 7, 2021

 ओमिक्रोण् : - विदेशराष्ट्रात् मुम्बैः विमाननिलयं प्राप्तवतः   १०९ जनान् प्रत्यभिज्ञातुं न शक्यते।

मुम्बै> राष्ट्रं कोविड् ओमिक्रोण् वैराणुव्यापनं विरुद्ध्य जाग्रतायां स्थितायं सत्यां विदेशराष्ट्रतः मुम्बैराष्ट्रं प्रत्यागताः १०९ जनाः अप्रत्यक्षाः अभवन्। विदेशात् आगतानां दूरवाण्याम् समाहूते सति तान् न लभते। दूरवाण्यः सुप्तावस्थायाम् आसन्। तैः दत्ताः सङ्केताः व्याजाः आसन्।  'At Risk' राष्ट्रतः समागताः सप्त दिनं यावन् एकान्ते वासः करणीयः। अष्टमे दिने रोगाणुपरीक्षा करणीया च। तदनन्तरं रोगाणुबाधितः चेदपि सप्तदिनानि यावत् पुनरपि एकान्तवासं करणीयम् इत्यस्ति निर्देशः। मुबैयां द्वयोः ओमिक्रोण् दृढीकृतम् । एवं महाराष्ट्रे आहत्य दशघटनाः दृढीकृताः।