OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 4, 2021

 वायुसेनायाः मिराष् युद्धविमानस्य चक्रं अपहृतम्। आरक्षकैः अन्वेषणं समारब्धम्।

लख्नौ> मिराष् युद्धविमानस्य चक्रेषु एकम् अपहृतम्। जोड्पूरस्थे वायुसेनापत्तनेषु प्रेषणाय लख्नौदेशस्य बक्षि तलाब् वायुसेनानिस्थानात् (Air base) भारवाहकयानद्वारा सैनिकोपकरणानि  प्रेषितानि आसन्। तस्मात् भारवाहकयानात् एव चक्रेषु एकं विनष्टम् अभवत्। स्कोर्पियो याने आगतः संघः एव चौर्यकर्म कृतम्। ते  अद्यावधि न प्रत्यभिज्ञाताः। लख्नौदेशमध्ये  गमनागमनसम्मर्दे यानगमनावसरे एव चौर्यं कृतम्। यानचालकः बहिः आगतः तथापि चोराः अप्रत्यक्षाः अभवन्। रात्रौ १२.३०-०१.०० मध्ये एव चोरणं कृतम् इति यानचालकेन आरक्षकं प्रति न्यवेदयत्।