OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 9, 2021

 नीलमणि फूकः, दामोदरमौसो वर्याभ्यां ज्ञानपीठपुरस्कारः। 

नवदिल्ली> असमीयभाषायाः विख्यातकविः नीलमणि फूकः गतवर्षस्य ज्ञानपीठपुरस्कारेण समादृतः। तथा च सुविदितः गोवन् आख्यायिकाकारः दामोदरमौसोवर्यः अस्य वर्षस्य च ज्ञानपीठपुरस्कारेण सम्मानितः। ११ लक्षं रूप्यकाणि कांस्यनिर्मितः सरस्वतीदेव्याः शिल्पश्च पुरस्काररूपेण दीयते। 

  'सूर्यहेनु नमि अहे इयि नोदियेदि' [सूर्यः अस्मिन् नदीतटे अस्तमनाय प्राप्नोति], 'कोबिता' इत्येते फूकस्य प्रसिद्धे रचने स्तः। कोबितानामककाव्यसमाहारः १९८१ तमे वर्षे साहित्याक्कादमीपुरस्कारेण सम्मानितः आसीत्। १९९० तमे अस्मै पद्मश्रीपुरस्कारोSपि लब्धः। दामोदरमौसो महाभागस्तु कोङ्कणिभाषायां आख्यायिकाः लघुकथाः बालसाहित्यकृतयः इत्यादीनां रचनया सुप्रसिद्धः भवति। 'कार्मेलिन्' इत्याख्यिकया स‌ः १९८३ तमे वर्षे साहित्य अक्कागमीपुरस्कारेण आदृतः आसीत्।