OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 25, 2016

भारतस्य प्रथमा अन्तर्वाहिनीनौका सज्जा।

नवदिल्ली > भारतेन स्वयं निर्मिता  प्रथमा आणव अन्तर्वाहिनीनौका अरिहन्तः युद्धाय सज्जः अभवत्‌। इतः पर्यन्तम् अनेकेषु सागरान्तर्गतपरिशीलनेषु आयुधपरीक्षासु च विजयीभूतः विलम्बं विना सैन्यस्य भागः भविष्यति।

भारतेन स्वयं निर्मित: अरिहन्ता अस्माभिः निर्मितेषु पञ्चसु अन्तर्वाहिनी नौकासु प्रथमा एव। अस्यां ७०० कि.मी.मितिपर्यन्तं गम्यमानम् पञ्चदश हृस्वदूरमिसैल् शस्त्राणि ३५०० कि. पर्यन्तम् गम्यमानं K४ बालिसिटक् मिसैल् शस्राणि च योक्ष्यन्ते ।

अरिहन्ततः बृहदाकारका द्वे अन्तर्वाहिन्यौ विशाखपट्टणस्य महानौका निर्माणशालायां निर्माणे स्तः। ६००० टण् भारमितः अरिह्न्ता १११ मिट्टर् दीर्घः भवति ।

एछ्.एल्. दत्तुः मानवीयाधिकारसमित्याः अध्यक्षः।

नवदिल्ली - सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः न्याया. एछ् एल् दत्तुः भारतस्य मानवीयाधिकारसमित्याः अध्यक्षरूपेण निर्णीतः। के जि बालकृष्णस्य विरमणानन्तरं अष्ट मासं यावत् तत्स्थानं रिक्तमासीत्।

राष्ट्रिय-संस्कृत-संस्थानस्य नाट्य-महोत्सवः आरब्धः।

नव दिल्ली > राष्ट्रिय-संस्कृत-संस्थानस्य त्रयोदशः, त्रिदिवसात्मकः संस्कृत-नाट्य-महोत्सवः ह्यः नवदिल्ल्यां महता समारम्भेण आरब्धः | अशेषदेशस्य विभिन्नेषु राज्येषु व्यापृतैः एकादश-परिसरैः संयुतोऽयं राष्ट्रिय-मूल्याङ्कन-प्रत्यायन-परिषदा 'ए'-श्रेण्या प्रत्यायितः मानित-विश्वविद्यालयः प्रतिवर्षं संस्कृत-नाट्य-महोत्सवम् आयोजयति यो हि अन्तःपरिसरीय-संस्कृत-नाट्य-स्पर्धात्वेन छात्रेषु अतितरां प्रियोsस्ति | नाना-परिसरीयाः ज्येष्ठाः कनिष्ठाश्च छात्राः छात्र्यश्च रङ्गकर्मणि सोत्साहं सहभागित्वम् आवहन्ति- इति नूनं संस्कृत-वाङ्मयस्य कृते संस्कृत-नाट्य-शास्त्रीय-परम्पराणां कृते च शुभसङ्केतत्वेन परिगणयितुं शक्यते | अद्य उद्घाटनानुवर्ती पूर्वरङ्गः अतितरां रमणीयः नयनानन्द-दायकः सहृदयावर्जकश्च सिद्धः | अद्य प्रदर्शितेषु प्रहसनेषु जम्मू-कश्मीरस्थस्य श्रीरणवीरपरिसरस्य "लटकमेलकम्", त्रिपुराराज्यीय- अगरतलास्थस्य एकलव्य-परिसरस्य "वञ्चक-पञ्चकम्", हिमाचलप्रदेशस्य बलाहरस्थस्य श्रीवेदव्यासस्य "कुहनाभैक्षवम्" चान्यतमानि सन्ति |ऐषमः संस्कृत-नाट्य-महोत्सवस्य विषयोsस्ति - प्रहसनम् |  अद्य श्वश्च अपराणि अष्टौ प्रहसनानि अत्र प्रदर्शयिष्यन्ते | पूर्वेद्युः [ २३-फेब्रुआरि-दिने] संस्कृत-नाट्य-महोत्सव-विषयकं वार्त्ताहर-सम्मेलनं सुख्याते "प्रेस-क्लब"- इति स्थले सम्पन्नम् | अत्र वार्ताहरान् सम्बोधयन् संस्थानस्य कुलपतिः आचार्यः परमेश्वर-नारायण-शास्त्री संस्कृतस्य प्रचार-प्रसारार्थं विधीयमानानि कार्याणि विस्तरेण विशदीकृतवान्।

समराणां प्रक्षोभाणाम् आधारे सार्वजनीनद्रव्याणि नाशयितुं न अनुज्ञायते।

नवदिल्ली > राष्ट्रे विद्यमानानां समराणां प्रक्षोभाणाम् आधारे सार्वजनीनद्रव्याणि नाशयितुं यं कमपि न अनुज्ञायते इति सर्वोच्चन्यायालयेन आदिष्टम्। एतादृशान् विरुद्ध्य कर्कशव्यवस्थाः विधास्यन्ते। सार्वजनीनद्रव्यनाशकान् दण्डयितुं मानदण्डान् सज्जीकरिष्यन्ते इति न्याय. जे एस् खेर् वर्यस्य अध्यक्ष्यत्वेन न्यायासनेन स्पष्टीकृतम्।
  हर्दिक् पटेलस्य नेतृत्वे प्रचालिते प्रक्षोभे सम्पन्ने द्रव्यनाशे न्यायालयेन आशङ्का उल्लेखिता।