OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 23, 2016

पौराणिक -वैज्ञानिक अध्ययनाय ऐ. ऐ. टि मध्ये संस्कृतविभागः ।


नवदिल्ली > पौराणिक-विज्ञान-अध्ययनाय  केन्द्रसर्वकारस्य शैक्षिकसंस्थासु प्रत्येकविभागः आरभते। शैक्षिक मन्त्रालयेन नियुक्तः एन्‌ . गोपालस्वामी ऐ.ए.एस् वर्यस्य अध्यक्षत्वेन आसीनः समित्या एव निर्दिष्टः।

भुवपूर्व प्रधानमन्त्रिणा ए.बी वाज् पेयी महोदयेन आरब्धा पद्धतिरासीदियम् ।
संस्कृत भाषायाः संवर्धनमुद्दिश्य दशवर्षाणां कृते इदानीम् आयोजितः अस्ति ।
विश्वविद्यालयेषु ऐच्छिकरूपेण पठतुं तथा छात्रवृत्तिः दातुं चं समित्या निर्दिष्टः अस्ति।

यू.जि.सि तलेषु संस्कृतं ऐच्छिक रूपेण स्वीकर्तुं अन्यैः विषयैः सह समन्वयितुं च 'कम्मीषनेन' निर्दिष्टम्। संस्कृत-साहित्यस्य वैज्ञानिकाध्ययनं सुगमया रीत्या निर्वोढुं, विविधान् आधुनिकान् विषयान् इव संस्कृत साहित्ये विद्यमानानाम् अनुसन्धानाय एव ' सेल्ल' ।

योगाभ्यासे विश्वासम् अर्पयित्वा वियट्नाम्।

हिनोयि >  युद्धेन विनष्टं जनानाम् आरोग्यं योगाभ्यासेन संप्राप्तुं शक्यते इति वियट्नाम् । जनाः सर्वे योगाध्ययने संप्रीताः विशिष्य महिलाः अपि। यु.एन् संस्थायाः निर्देशमनुसृत्य वियट्नां राष्ट्रे कृतस्य योगदिनाचरणस्य अनन्तरफलमेव एतत्।

गतवर्षे जूण् मासस्य 21 तमे दिनाड़्के योगदिनत्वेन आचरितेस्मिन् समये राष्ट्रस्य दश प्रविश्यायां परिशीलनं आयोजितवन्तः। रोगनिवारणाय योगः पर्याप्तः भवतीति ज्ञानमेव योगपरिशीलनायोजनस्य कारणम्। युद्धेन विनष्टम् शारीरिक -मानसिकारोग्यस्य दृढीकरणाय उत्तमौषधं भवति योगाध्ययनमिति परिशीलकैः अभिप्रयन्ति।

यद्यपि पूर्वकालादारभ्य विविधेषु राष्ट्रेषु योगशिक्षणमासन् तथापि गतवर्षस्य योगदिनाचरणेनैेव नूतनान्दोलनं जातम् । आरोग्यकार्ये तथा आकारसौष्टवे च श्रद्धालवः भवन्ति वियट्नां जनाः। अनेके भारतीय-योगाचार्याः इदानीम् आचार्यरूपेण वियट्नां देशं प्राप्ताः।

काश्मीरे त्रयः भीकराः हताः।

श्रीनगरं - त्रयदिनात्मकस्य संघट्टनस्य अन्ते जम्मु कश्मीर पांपोर् प्रदेशे भवने निलीयमानाः त्रयोपि भीकराः सैन्येन हताः। तेषां मृतशरीराणि ह्यः दृष्टानि। सैनिककार्यक्रमाः समाप्ताः।
लष्कर् इ तोय्बा प्रवर्तकाः भवन्ति भीकरा इति सि आर् पि एफ् निर्देशकः प्रकाश् मिश्रा अवदत्।