OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 27, 2016

सुनिश्चयदण्डनाय नीतिशास्त्रं कालानुसृतं भवेत्-राष्ट्रपतिः।


कोच्ची > आधुनिके काले समूहे विद्यमानान् दुष्कृन्यान् परिहर्तुं भारतस्य नीतिन्यायनियमव्यवस्थासु कालानुसृत -परिवर्तनम्‌ आवश्यकम् इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उक्तम्। डयरक्टर् जनरल् ओफ्प्रोसिकूषन् द्वारा आयोजिते भारतस्य पीनल् कोट्संविधानस्य १५५ तम वर्षास्य समापन सभायां उद्‌घाटनं कृत्वा भाषामाणः आसीदयम्।

बिट्टीष्  शासनकालेषु निर्मितेषु दण्डशास्त्रेषु न्यूनातिन्यूनानां  दोषानामेव दण्डः कल्पितः। किन्तु अद्य अवस्थान्तरं जातम्। क्रूरकृत्यानां क्षेत्रत्वेन परिवर्तिततः समूहः। वित्तानुबन्ध अन्तर्जालानुबन्ध दोषकृत्यानि वर्धते। अतः आरक्षकाः नियमज्ञाः च तेषां कर्मसु सत्यतायाः पालनं करणीयम् इति च राष्ट्रपतिना बोधितम्।

राष्ट्रसीमाम् उल्लंघ्य पाक्किस्थानतः वायुसञ्चिका राजस्थाने आगतः।

जय् पूर् > राज्यसीमाम् उल्लंघ्य पाक्किस्थानतः वायुसञ्चिका (balloon) राजस्थानराज्यस्य जलोरदेशे आगतः। ग्रामीणै: वायुसञ्चिकाम् आरक्षकेभ्यः दत्तम्। 

पाक्किस्थान् मरैन् अक्कादम्यां 'इन्टर यूनिवेर्सिट्टि स्पोर्सस्य' समापनसम्मेलनमधिकृत्य लिखितः वस्त्राणं सममेव आसीदियम्।  स्कलितपथा भारते आगतं वायुसञ्चिकाम् अधिकृत्य अधिकृतैः किमपि न उक्तम्। 

इतः पूर्वमपि राजस्थानराज्यस्य बारमर् जिल्लायां तादृशं वस्तुं व्योमसैन्याय लब्धमस्ति। तत् अधिकृत्य प्रतिरोधमन्त्रालयः पाकिस्थानं प्रति सूचना प्रेषिता आसीत्।

राष्ट्रस्य आर्थिकाभिवृद्धिः ७- ७.५% ।

नवदिल्ली - भारतस्य आर्थिकवृद्धेः अनुपात ७ - ७.५% अस्तीति आर्थिक समग्र वीक्षणावेदनपत्रे प्रस्तूयते। आवेदनपत्रं धनमन्त्रिणा अरुण् जय्टली वर्येण संसदि समर्पितम्। राष्ट्रस्य संपत्मण्डले शुभ प्रतिक्षामावहति आवेदनपत्रम्। कार्षिकमण्डले समग्रं परिष्करणं निर्दिशति ।