OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 24, 2016

ईजिप्ते चतुर्वयस्काय जीवनपर्यन्तं दण्डः।
कैरो> ईजिप्ते कैरो न्यायालये सङ्कलिते दण्डनीयानां पट्टिकायां चतुर्वयस्कः बालकः च । तस्मिन् आरोपितः दोषः तु हत्या' सम्पदः नाशः, समाधानान्तरीक्षस्य नाशः च । अस्वाभाविक दोषारोपः एते दोषाः अनेन प्रथमे वयसि कृतः। कैरो सैन्यस्य न्यायालयेन निर्मिता इयं पट्टिका ।

अहम्मद् मसूर् कोरानि नामकस्य बालकस्य दुरवस्थेयम्। एकस्मिन् दिने आरक्षकाः कोरानिम् अन्विष्य गृहमागताः। तैः अन्विष्यमाणः दोषी चतुर्थवयस्कः बालकः इति तस्य पिता अवदत्। किन्तु अस्मान् अवहेळयति वा इत्युक्वा बालकस्य पितरं चतुर्मासपर्यन्तं आरक्षकालये कारायां बबन्ध। ततः सः निरपराधी ज्ञात्वा अमुञ्चत। पुनः तेन पिता नियमज्ञस्य साहायेन जन्मतिथेः प्रमाणपत्रं न्यायालये अददात्। तथापि न्यायाधिपः तत् नागणयत् ।

इदानीं विषयः जनकीयविद्युत् माध्यमेषु प्रचलितः आसीत् । सैनिकन्यायालयस्य पट्टिकाकरण-प्रक्रियायां जातः त्रुटिः एव इति कैरोसैनिकाधिकारिणा उक्तम्। २०१४ तमे वर्षो ११६ दोषिणां पट्टिका एव न्यायालयेन पञ्चीकृता। रेखानुसारं  अहम्मद्अन् सूरस्य एकवयस्कः एव।