OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 24, 2017

ट्रम्पं विरुध्य महान् महिलाप्रतिषेधः।
वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिं डोणाल्ड् ट्रम्पं विरुध्य विश्वस्य नानाभागेभ्यः वनितानां प्रतिषेधः प्रसार्यते।
     वाषिङ्टणे सम्पन्ने प्रतिषेधसञ्चलने दशसहस्रशः वनिताः भागभागित्वं कृतवत्यः। ट्रम्पस्य स्थानारोहणवेलायां अधिकाः महिलाः प्रतिषेधसञ्चलने आसन्निति निरीक्ष्यते। निर्वाचन वेलायां ट्रंपेण कृतं स्त्रीविरुद्धपरामर्शं विरुद्ध्य  एव वनिताप्रतिषेधः। अमेरिक्कानगरेभ्यः ऋते सिड्नी , लण्टन् ,टोकियो  दिल्ली इत्यादिषु नगरेष्वपि प्रतिषेधः संवृत्तः।

कोच्ची मेट्रो रयिल् मार्च् मासे आरप्स्यते।
कोच्ची > मेट्रो रयिल् यानस्य धावनं मार्च् मासे आरप्स्यते इति ई एम् श्रीधरः अवदत्। आलुवा-पालारिवट्टम् रेल् निस्थानयोः मध्ये सूक्ष्मान्वेषणं कृत्वा भाषमाणः आसीत् सः। निर्माण प्रवर्तनेषु  संतृप्तिः अस्ति इति सः अवदत्।