OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 19, 2017

कान्पुर् रेल् यानदुर्घटना भीकराक्रमणहेतुभूता?
मोतिहारी (बीहार्)> गतसंवत्सरस्य नवम्बर् मासस्य विंशे दिनाङ्के, उत्तरप्रदेशे कान्पूरे संवृत्ता रेल् यानदुर्घटना भीकराक्रमणहेतुभूता इति बीहारस्य आरक्षकदलेन उक्तम्। बीहारराज्ये पूर्वचम्पारन् जनपदे आरक्षकैः गृहीतेभ्यःत्रिभ्यः, दुर्घटनां कर्तुं पाकिस्थान् चारसंस्थायाः ऐ एस् ऐ नामिकायाः साहाय्यं लब्धमिति अवगतमस्ति। मोट्टी पस्वान्, उमाशङ्करपट्टेलः, मुकेष् यादवः एते त्रयः एव आरक्षकबद्धाः अभवन्निति आरक्षकाणां जनपदाधिकारिणा जितेन्द्र राणावर्येण उक्तम्।
    एतेषां त्रयाणां ऐ एस् ऐ संस्थया सह सम्बन्धभूतेन ब्रजेष् गिरिनामकेन समं परस्परव्यवहारः आसीदिति आरक्षकाधिकारिणा निगदितम्। एतान् त्रीन् विना द्वावपि एतत्सम्बन्धौ निगृहीतव्यौ तौ निलीयमानौ वर्तत इति च आरक्षकवृत्तैरुच्यते।


डालिया अराना वाचनाविश्वे लघ्वी मेधावी।
वाषिड्टण्>विश्वस्य बृहत्तम ग्रन्थशालायाः यु एस् कोण्ग्रस् ग्रन्थशालायाः (नाषणल् ग्रन्थशालायाः)एकदिनस्य ग्रन्थालयाध्यक्षरूपेण चतुर्वयस्का बालिका नियुक्ता।सहस्राणां ग्रन्थानां वाचनानन्तरं एषः बहुमतिः सा प्राप्ता।जोर्जिया गयिन्व्विन्स् वासी डालिया अराना अस्ति सा बालिका।तृतीये वयसि चित्रकथापुस्तकानां वाचनेनासीत् तस्याः आरम्भः।पुनः के जी कक्ष्याः पूर्वं १००० ग्रन्थाः वाचितुं तस्याः माता प्रोत्साहनं दत्तवती।छात्राणां केषाञ्चन ग्रन्थानां वाचनं शक्यतेति परीक्षणार्थमासीत् एषः।