OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 10, 2017

१०,१२ कक्षयो : बोर्डपरीक्षायाः परीक्षा-कार्यक्रमः
नवदिल्ली> केन्द्रीयमाध्यमिकपरिक्षाबोर्डस्य परीक्षा मार्चमासस्य नवमदिनांकात् प्रारप्स्यते, पञ्चराज्यानां विधानसभेयनिर्वाचनकारणेन परीक्षायोजने विलम्बः नैव भविष्यति। मार्चमासे ४,८,११ दिनांकेषु निर्वाचनकारणेन परीक्षा नैव भविष्यति। दशमकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य १० दिनांके द्वादशकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य ऊनत्रिंशे दिनांके आयोजयिष्यते।

यूरोप् भूखण्डे अतिशैत्यम्। विंशत्यधिकाः मृताः।
लण्टन्>अतिशैत्यात् स्तब्धायमाने यूरोप् भूखण्डे इतःपर्यन्तं विंशत्यधिकं जनाः मृताः। ग्रीक् द्वीपाः दक्षिणेट्टलीप्रदेशाश्च कठिनहिमैरावृताः।
     इट्टलीराष्ट्रे विमान-जलयानगतागतानि निरस्तानि। दक्षिणेट्टलीप्रदेशे विद्यालयानां सोमवासरादारभ्य  प्रवर्तनविरामः निर्दिष्टः। तुर्की राष्ट्रमपि शैत्यग्रस्तमभवत्। इस्ताम्बूल् प्रदेशे शक्तः शीतवायुः वातीत्यतः महानौकागतागतं स्थगितम्। पोलण्ट् देशे अतिशैत्येन उपशतं जनाः मृताः। रूस् राष्ट्रे तापः न्यूनं त्रिंशत् डिग्री परिमाणं [–३०] अभवत्।

मुद्रारूप्यकप्रतिसन्धिः - लघुतर - मध्यमोद्योगमण्डलेषु ६०% कर्मनष्टः भविष्यति। 
  नवदिल्ली>मुद्रारूप्यकाणां निर्मूल्यीकरणेन राष्ट्रस्य लघु-मध्यमस्तरीयेषु उद्योगमण्डलेषु इतःपर्यन्तं प्रतिशतं पञ्चत्रिंशत् कर्मकराणां कर्मविनष्टम् अभवदिति "ओल् इन्डिया मानुफाक्चरेर्स् ओर्गनैसेषन्" नामिकया संस्थया कृते समीक्षणे स्पष्टीकृतम्। मार्च् मासं तावत् प्रतिशतं षष्टिः इति क्रमेण कर्मकराः विनष्टकर्माणः  भविष्यन्ति। एषु मण्डलेषु आय अपि प्रतिशतं पञ्चाशत् परिमाणेन न्यूनीकृतः। मासत्रयाभ्यन्तरे न्यूनता ५% वर्धिष्यते।
समीक्षणे उपलब्धाः वृत्तान्ताः -
. महाराष्ट्रा तमिल् नाट् गुजरात् इत्येतानि राज्यानि नितरां क्षतिबाधितानि जातानि।
. उत्पादनमण्डलेषु विद्यमानेषु बृहदुद्योगेषु इतःपर्यन्तं कर्मविनष्टः ५% , समीपकाले १५% भविष्यति।
प्रतिसन्धेः कारणानि -
. मुद्रापत्रलभ्यतायाः महती न्यूनता, रूप्यकप्रतिसंहरणे अनुवर्तमानं नियन्त्रणं, धनसमाहरणस्य क्लेशः इत्यादयः।