OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 2, 2017

जापनीयछात्राय संस्कृते पञ्च-सुवर्णपतकानि

वारणासी> सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य चतुस्त्रिंशदीय-स्नातकोत्सवे जापनीय-छात्रया तोषिको इडावया संस्कृताघ्ययनात् पञ्च-सुवर्णपतकानि प्राप्तानि। तया सम्पूर्णानन्द-संस्कृतविश्वविद्यालयस्य सुवर्णपतकं,रामकुवार् सुवर्णपतकं, चन्द्रवदन् माधवसिंह सुवर्णपतकं , माधवाचार्य सुवर्णपतकं, प्रसादमुखर्जी सुवर्णपतकं च प्राप्तम्। अष्टवर्षेभ्य: पूर्वं काट्मण्डूतः आगतवती तस्मिन् समये नेपाली भाषामधिगतवती। संस्कृतमेव नेपालभाषाया: मूलमिति ज्ञात्वा संस्कृतभाषा-पठनाय संस्कृते प्रामाणपत्रप्रणालीं कृतवती। तत: प्रेरिता भूत्वा संस्कृते शास्त्री, आचार्य बिरुदौ च कृतवती। अस्मिन् स्नातकोत्सवे बनारस् हिन्दूविश्वविद्यालयस्य उपकुलपति: श्री गिरीश चन्द्रत्रिपाठी, काशीविद्यापीठस्य उपकुलपति: श्री पृथ्वी नागः, राज्यपाल: श्री राम् नायक् च भागं ग्रहीतवन्त:।

 तुर्कीराष्ट्रे भीकराक्रमणम् - एकोनचत्वारिंशत् जनाः मारिताः।
इस्ताम्बूल्> तुर्कीराष्ट्रस्य राजनगर्याम् इस्ताम्बूले कस्मिंश्चित् निशामेलनकेन्द्रे नववत्सराघोषाणां मध्ये भीकरैः कृतेन भुषुण्डिप्रयोगेन एकोनचत्वारिंशत् जनाः मृताः। तेषु द्वौ भारतीयौ स्तः। प्रादेशिकसमयानुसारं रात्रौ सपादैकवादने आसीत् रेय्ना नामके निशाकेन्द्रे भीकराक्रमणं सञ्जातम्।
   उपसप्तशतं जनाः आघोषोत्सुकाः सन्तः उपस्थिताः आसन्!सान्ताक्लोसस्य वेषं धृत्वा प्राप्तः भीकरः द्वारपालकम् आरक्षिपुरुषं प्रति गोलिकाशस्त्रप्रयोगं कृत्वा अन्तः प्रविश्य आघोषकान् प्रति भुषुण्डिप्रयोगं कृतवान्। मृतेषु २० जनाः प्रत्यभिज्ञाताः।

यू एन् सेक्रटरि जनरल् पदे अन्टोणियो गुट्टरसः प्रविष्टवान्।
न्यूयोर्क् > अस्मिन् आङ्कलीय-नववत्सरे ऐक्यराष्ट्रसभयाः आधिपत्ये अन्टोणियो गुट्टरसः प्रविष्टः। प्रतिसन्धयः दूरीकृत्य शान्तिं प्राप्नुयामः इति तेन स्वस्य प्रथमभाषणे उद्घोषितम्। व्यक्तयः राष्ट्राणि च शान्तिवर्धनाय राष्ट्राभिमतभिन्नता परिहाराय च प्रथमस्थानं दद्युः। लोकराष्ट्राणां सर्वकाराः तथा नूतनं यू एस् संविधानं च साह्येन वर्तिष्यन्ते इत्यपि तेन प्रत्याशां प्रकाशितवान्।