OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 7, 2017

ओम् पुरिः कालयवनिकां गतः।
मुम्बई> अभिनयस्य परुषसौन्दर्यं  प्रेक्षकान् प्रति संक्रमितवान् विख्यातनटः ओम् पुरिः[६६] मृत्युवशं गतः। ह्यः प्रभाते अन्धेरिस्थे स्वभवने हृदयाघातेनैव अन्त्यमभवत्।
   हरियानायां अम्बालाप्रदेशे कस्मिंश्चित् पञ्चाबीपरिवारे १९५० ओक्टोबर् मासे १८ तमदिनाङ्के  भूजातः ओं प्रकाश् पुरिः कतिपयैः हिन्दीचलच्चित्रैः प्रोक्षकमनस्सु स्थानं प्राप्तवान्। चतुर्दशकदैर्घ्ये तस्य अभिनयजीवने समान्तरचलनचित्रैः सह मुख्यधाराचित्रेषु नाटकेषु दूरदर्शनकार्यक्रमेषु च भागभागित्वमावहत्। हिन्दीं विहाय मराठी तेलुगु कन्नटा पञ्चाबी मलयालं भाषाचलच्चित्रेषु अपि स्वस्य नटनवैभवं प्रदर्शितवान्। होलिवुड् ब्रिटिशचित्रेषु भारतीयसान्निध्यम् अभवत्।
     १९८१ , १९८३ संवत्सरयोः द्विवारं श्रेष्ठतमनटस्य देशीयपुरस्कारं लब्धवान्। १९९० तमे वर्षे राष्ट्रस्य  पद्मश्रीपुरस्कारेणापि समादृतः आसीत्।
   ओम् पुरिवर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी कोण्ग्रस् अध्यक्षा सोणियागान्धी चलच्चित्रमण्डलस्य प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।

एष्यायाः बृहत्तमस्य विद्यालय-कलोत्सवस्य जनपदस्तरेषु स्पर्धा आरब्धा
एरणाकुळम् > एष्यायाः बृहत्तमः कलाेत्सवः इति प्रसिद्धः केरळस्य विद्यालय-कलोत्सवः जनपदस्तरेषु आरब्धः। कोट्टयम् जनपदे संस्कृत-स्पर्धायां नाटक विभागे सत्यकामजाबालः इति नाटकावतरणेन वेळ्ळावूर् नाम ग्रामस्य एस्.एन. वि प्राथमिक विद्यालयः प्रथमस्थानं प्राप्तम्। राज्यस्तरीय-स्पर्धा अस्मिन् मासस्य षोडशदिनाङ्गात् आरभ्य द्वाविंशति-दिनाङ्कपर्यन्तम् भविष्यति।                         ऐषमः सप्तपञ्चाशत्तमः महोत्‍सवः भवति। राज्यस्तरीयस्पर्धा माध्यमिक स्तरीय उच्चस्तरीययोः एव। विशेषतया एकोनविंशतिः स्पर्धाः संस्कृतभाषायामपि भवन्ति।

संस्कृतं भारतस्य श्वासः - सुमित्रा महाजन्।
संस्कृतभारत्याः अखिलभारतीयस्य अधिवेशनस्य उडुप्यां प्रारम्भः।।
उडुपि> संस्कृतं भारतस्य श्वासः अस्ति अपि च संस्कृतभाषायाः अध्ययनं चरित्रनिर्माणे सहायकारि भवति इति लोकसभाध्यक्षा श्रीमती सुमित्रा महाजनमहाभागा प्रत्यपादयत्।
      संस्कृतभारत्या कर्णाटके उडुप्याम् आयोजितस्य अखिलभारतीयस्य अधिवेशनस्य उद्घाटनं  श्रीमती महाजनवर्या अकरोत्। उडुपिक्षेत्रस्य पर्यायः श्री - पेजावर - अधोक्षज- मठाधीशाः श्रीश्रीविश्वेशतीर्थस्वामिनः अपि च महाजनमहाभागा इत्यनयोः करकमलाभ्याम् अधिवेशनस्य उद्घाटनम् अभवत्। प्रसङ्गेsस्मिन् कृष्णापुरमठाधीशाः श्रीश्रीविद्यासागरतीर्थस्वामिनः, उडुपिक्षेत्रस्य सांसदा सुश्रा शोभा करंदलाजेमहोदया, कर्णाटकस्य मत्स्यव्यवसाय तथा युवसक्षमीकरणमन्त्री प्रमोद मध्वराजमहोदयः, संस्कृतभारत्याः अखिलभारतीयः अध्यक्षः डा. चॉंदकिरण सलूजामहोदयः, महामन्त्री डा. नन्दकुमारमहोदयः च उपस्थिताः आसन्।
     त्रिदिनात्मकस्य  अधिवेशनस्यास्य अङ्गत्वेन विभिन्नविषयेषु  चर्चा, परिसंवादाः, यक्षगानादयः सांस्कृतिककार्यक्रमाः च आयोजिताः विद्यन्ते। 'परम्परा' नाम्नी आकर्षकी प्रदर्शनी अपि अत्र आयोजिता अस्ति। कार्यक्रमस्य विशेषत्वं नाम  लोकसभाध्यक्षामहोदयाsपि सम्पूर्णम् उदबोधनं संस्कृतेनेव अकार्षीत्।