OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 9, 2017

भारतीय भाषाणां विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: - प्रकाश् जावडेकर:
उडुपि> संस्कृतसहितानां सर्वासां भाषाणां  विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: केन्द्र सर्वकारेण आयोक्ष्यते इति मानवसंसाधनविकास मन्त्रिणा प्रकाशजावडेकरेण उद्घोषितम्।
कर्णाटकप्रान्ते उडुपीनगरे संस्कृतभारत्या: अखिलभारतीय अधिवेशने विशिष्टसत्रेsस्मिन् भाषमाणः आसीत् जावडेकरमहोदय:। पुट्टिगे मठस्य पीठाधीश: सुगुणेन्द्रतीर्थस्वामीन: कार्यक्रमस्य अध्यक्षतां अवहत्। पर्याय पेजावर अधोक्षजमठस्य पीठाधीश: श्री श्री विश्वेशतीर्थस्वामीन:, संस्कृत भारत्या: राष्ट्रिय अध्यक्ष: भक्तवत्सल-शर्मा, स्वागतसमित्या: प्रमुख-कार्यदर्शी एम. बी. पुराणिक: च मंञ्चस्योपरि आसन्।
अधिवेशनप्रसंगेन आयोजितां प्रदर्शिनीं मन्त्रिमहोदय: दृष्टवान्। अनन्तरम् अधिवेशने उपस्थिता: प्रतिनिधय: तेन साक्षात् संभाषितवन्त:। अवसरेsस्मिन् स: अवदत् यत् युष्माकं क्लेशानां परिहाराय उचितः कालः समागतः इत्यवधार्यताम्। "संस्कृतस्य संवर्धनाय प्रसाराय ये प्रयत्नान् कुर्वन्ति तान् संस्कृतभारती सम्मेलयति। तेषां प्रयत्ना: केवलं भाषार्थं न अपितु राष्ट्रार्थम्। युष्याकं प्रयत्ना: सर्वकारेण अपि समादृताः भविष्यन्ति।," एवं स: कथितवान्।
यावती कापि भाषा पाठ्यक्रमे न विद्यते तावती सा भाषा विकसितुम् न शक्नोति, इति स: उक्तवान्।
सुगुणेन्द्रतीर्थ: स्वामीन: उक्तवान् यत् संस्कृतं काचित् सुलभा सुन्दरा अपि भाषा वर्तते। "एकस्मिन् वैश्विकसम्मेलने मया संस्कृतेनैव व्याख्यानम् दत्तम्। ये विदेशीजना: तत्र उपस्थिता: सन्तः ते अकथयन् यत् ५० प्रतिशतम् यावत् ते अवगन्तुम् शक्नुवन्त:। सर्वाः भाषा: प्रादेशिकभाषा: सन्ति, केवलं संस्कृतभाषा एव वैश्विकभाषा: वर्तते। अतः संस्कृतं विश्वभाषा इति घोषितुमर्हते," इति स: अवदत्।

संस्कृत विद्वान् प्रो. रामानुज-देवनाथन् महाभागः दिवङ्गतः

संस्कृतक्षेत्रस्य ज्ञानसागरः परिशुष्यते
मुम्बै>संस्कृतक्षेत्रस्य ज्ञान पीयूषः विद्वान् प्रो. रामानुज देवनाथन् महाभागः आत्मानं संस्कृताय समर्प्य दिवङ्गतः। अयं राष्ट्रिय संस्कृत संस्थानस्य विभिन्न परिसरेषु प्राचार्यः
राष्ट्रिय-संस्कृत-संस्थानस्य कुलसचिवः तथा जगद्गुरु रामानन्दाचार्य नाम राजस्थानस्य संस्कृत विश्वविद्यालयस्य कुलपतिः आदि पदेषु अलंकृतः आसीत्। संस्कृतं, हिन्दी, आङ्‌गलेयं, तमिळ्, तेलुगू, कन्नड़, मलयाळम्, अयं महोदय: ओडिया, प्राकृतं आदिषु विभिन्नभाषासु पण्डितः आसीत्। व्याकरण, न्याय, वेदान्त,मीमांसा, दर्शन, शिक्षाशास्त्र्यादिविषयेषु पारंगतः आसीत्। तस्य लघिष्ठा, छन्दोमाला, शाब्दिकचिन्तामणिः तथा लिंगानुशासनस्य अक्षयः टिप्पणिःप्रभृतयः ग्रन्थाः, तथा सम्पादित ग्रन्थाः च प्रसिद्धाः। ज्ञानस्य गरिमा स्वस्य सरलतायां प्रकाश्य स्वस्य लोकान् सदा प्रकाशयन्नासीत् अयं महाभागः।
पान् कार्ड्पत्रम् वैष्टिकं करोति। 
नवदिल्ली > वित्तकोशलेखानां कृते शाश्वतिकलेखापत्रम् [पान् कार्ड्] अवश्यं कृत्वा केन्द्रवित्तमन्त्रालयेन आदेशः कृतः। विद्यमानानां लेखावाहकानां पान् संख्या फेब्रुवरि अष्टाविंशात् दिनाङ्कात् पूर्वं पान् संख्यायाः संग्रहणाय वित्तकोशाः निर्दिष्टाः। ये पान् कार्ड् रहिताः तैः फोम् ६० पत्रम् अवश्यं समर्पयितव्यम्। एतदधिकृत्य अायकरव्यवस्थां संशोधनं कृत्वा प्रत्यक्षकरविभागेन विज्ञप्तिपत्रं प्रकाशितम्। जन् धन् लेखासदृशानां लघुसंख्यानानां कृते अयं नूतननिर्देशः न बाधकः भविष्यति।