OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 21, 2017

गृहीतानि मुद्रारूप्यकाणि निर्व्याजानि।
नवदिल्ली> मुद्रपत्रनिरसनानन्तरं आराष्ट्रं कृते अन्वीक्षणे व्याजरूप्यकाणि अधिकृतैः न गृहीतानीति केन्द्रसर्वकारेण उक्तम्। पब्लिक् अक्कौण्ट् समित्याः समक्षं  दत्ते  केन्द्रवित्तमन्त्रालयस्य राजस्वं मन्त्रालयस्य च लिखितप्रतिवचने अस्ति अयं वृत्तान्तः। मुद्रानिरसनानन्तरं गृहीतानां पञ्चाशत् , सहस्ररूप्यकाणां विशदांशाः , तेषु रूप्यकेषु आतङ्कवादिनां चाराणां च मुद्रापत्रकाणि कियदित्यादयः प्रशनाः समित्या उन्नीताः आसन्।

अमेरिक्कायां ट्रम्प् युगः आरब्धः।
क्यापिटल् हिल्  (अमेरिक्का) - अमेरिक्काराष्ट्रस्य पञ्चचत्वारिंशत् तमे राष्ट्रपतिपदे डोणाल्ड् ट्रम्पः अवरोधितः। मुख्यन्यायाधिपस्य जोण् रोबर्ट् वर्यस्य समक्षे शपथवचनं कृतवान्।
     उपराष्ट्रपतिरूपेण मैक् पेन्स् वर्यः शपथवचनं कृत्वा स्थानारोहणं कृतवान्। ट्रम्प् वर्यस्य स्थानारोहणं पुरस्कृत्य राष्ट्रे सर्वत्र महती सुरक्षा आयोजिता आसीत्।

कोलकातायां ऐषमः बंगाल-वैश्विक-व्यापार-सम्मेलनस्योद्घाटनम्
राष्ट्रपतिः प्रणबमुखर्जी  कोलकातायां ऐषमः बंगालवैश्विकव्यापारसम्मेलनस्य  उद्घाटनं कृतवान् । असौ औद्घाटनिकाभिभाषण प्रावोचत् यत् पश्चिमबंगालः आधमर्ण्यं वहति परं  उदारनीतिभिः सह अग्रगमित्वं भजते येन निवेशकान्  अनुकूलवातावरणस्योपलब्धिः भवेत् । राष्ट्रपतिना स्थिरतापूर्णन्यूनकुसीदमितेः  आवश्यकता सबलं प्रतिपादिता ।

इट्टलीदेशे हिमगिरिपातेन त्रिंशत् जनाः मृताः।
अमाट्रैस्> इट्टलीराष्ट्रे फारिन् डोलाप्रदेशे पथिकालयस्य उपरि हिमगिरिः पतित्वा त्रिंशत् जनाः मृताः। गतदिने सञ्जातं भूचलनम् एव हिमपातस्य कारणम्। मृतेषु बालकाः अपि सन्ति। मध्यइट्टल्यां ग्रान् सासो पर्वतस्य समीप एव गोपियानो नामकः पथिकालयः वर्तते। तत्र आगताः विनोदसञ्चारिणः एव दुर्घटनायाम् अन्तर्भूताः।