OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 13, 2017

"टाटा संस्था" चन्द्रशेखरेण नीयते। 
मुम्बई - भारतस्य बृहत्तमस्य टाटा ग्रूप् नामकस्य उद्योगसाम्राज्यस्य अध्यक्षरूपेण एन् चन्द्रशेखरः नियुक्तः। अस्याः संस्थायाः अधीनत्वे वर्तमानस्य ऐ टि नैगमस्य [टि सि एस्] अधिपो भवत्ययमिदानीम्। ५३ वयस्कः सः टाटा सण्स् नैगमस्य अध्यक्षरूपेण फिब्रवरिमासस्य २१तमे दिनाङ्के उत्तरदायित्वं स्वीकरिष्यति।
     गतदिने टाटाग्रूप् इत्यस्य मातृनैगमस्य टाटासण्स् नामकस्य  निदेशकसंघमेलने एव चन्द्रशेखरस्य नियुक्तिः। रत्तन् टाटा वर्यस्य अनन्तरगामित्वं प्राप्तः सैरस् मिस्त्री सार्धद्वयमासात्पूर्वम् अध्यक्षस्थानात् निष्कासित आसीत्। तदनन्तरम् इतःपर्यन्तं रत्तन्टाटा आसीत् अध्यक्षः।  

सेल्फिग्रहण-स्पर्धायां केरळस्य भूतपूर्वमुख्यमन्त्री।

एरणाकुळं रयिल् निस्थाने ह्यः सायं पञ्चवादने भूतपूर्व मुख्यमन्त्रिणा उम्मन् चाण्टिना सह  सेल्फि ग्रहणार्थं जनाः महान् सम्मर्दम् अकुर्वन्। काचित् नारी पुरुषान् पराजित्य सेल्फीफीग्रहणे प्रथमं सफलता प्राप्ततवती।

कोल्कत्ता आरक्षकैः अनुमतिः न दत्त: 
कोल्कत्ता अस्मिन् शनिवासरे १४ दिनांके मकरसंक्रान्तिपर्वण: उपलक्ष्ये पश्चिमबंगालस्य कोल्कत्ता नगरस्य ब्रिगेड परेड् ग्रौण्ड् मध्ये राष्ट्रीय-स्वयं- सेवकसड्घेन आयोजिताय कार्यक्रमाय कोल्कत्ता आरक्षकै: अनुमति न प्रदत्तः। अत्र "हिन्दू सम्मेलनं" इति नाम्ना सम्मेलनम् आयोजितमासीत् । इदानीं राष्ट्रियस्वयंसेवक संघेन उच्चन्यायालये दूषणम् कृतो वर्तते। कार्यक्रमेस्मिन् मुख्यतिथि रुपेण एवञ्च मुख्यवक्तारुपेण संघाध्यक्षानां मोहन् भागवतमहोदयानां आगमनमासीत्၊