OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 26, 2017

निर्वाचनानि युगपत् कर्तव्यानि। - राष्ट्रपति। 
 नवदिल्ली>लोकसभा - विधानसभा निर्वाचनानि युगपत् कर्तुं तथा राष्ट्रे समग्रं निर्वाचनपरिष्करणं चालयितुं च कालः समागत इति राष्ट्रपतिः प्रणब् मुखर्जी । राष्ट्रस्य गणतन्त्रदिनस्य पूर्वस्मिन् दिने राष्ट्रं प्रति कृते सन्देशे आसीत् राष्ट्रपतेः निरीक्षणम्। राष्ट्रे वर्तमानानि राजनैतिकदलानि सम्मन्त्र्य निर्वाचनसमित्या एव अनन्तरपदक्षेपाः स्वीकर्तव्याः इति तेनोक्तम्।

यू एस्  सैनिकाः बहिर्गन्तव्याः- ट्रम्बम् उद्दिश्य तालिबान् 
काबूल् >यू एस्  सैनिकाः अफ़्गानिस्थानम् परित्यज्य गन्तुम् समयः समागतः इति तलिबानस्य वक्ता लेखं प्रेषितवान् । लेखस्य प्रतिलिपयः वार्ताहाराणाम् अपि लब्धाःधाः। अफ़्गानिस्थानस्य प्रतिष्ठितस्य प्रशासनस्य नाम्नि आङ्गलेये चतुर्षु पुटेषु लिखितम् अस्ति पत्रम्। वैदेशिकाः सैनिकाः राष्ट्रे यावत्कालं सन्ति तावत्पर्यन्तं शान्तिः असाध्याया भविष्यति इति लेखः वदति। अफ़्गानिस्थानस्य चरित्रे अधिवेशितैः पराजयः इत्यनुभवः एव अस्ति। समकालीनस्य अलीकस्य सूचनाः च लेखे सन्ति । अफ़्गानस्य भाषासु अपि लेखस्य अनुवादाः प्रकाशिताः सन्ति।