OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 6, 2017

केन्द्रसर्वकारस्य आर्थिक-विनिमयानि मुद्रापत्रकरहितानि भविष्यति।
नवदेहली > सर्वकारीय आर्थिक-विनिमयानि मार्च् मासस्य एकत्रिंशत् दिनाङ्कात् पूर्वं मुद्रापत्रकरहितं भविष्यति। एतदर्थं सर्वान् मन्त्रालयान् प्रति निर्देशः दत्तः। विनिमयानि मुद्रापत्रकरहितया कर्तुं कृतानि सज्जीकरणानि सप्ताहान्तरेण पूर्णताम् प्राप्स्यते इति केन्द्र IT निदेशकया कविता भाट्यया उक्तम्। नूतनः भीं आप् सङ्केतः सर्वैः वित्तकोशैः सह आयोक्ष्यते इति च तया उक्तम्। सांख्यक विनिमयानां वर्धनेन सेवा शुल्कः सार्धरूप्यकात् अर्धरूप्यकत्वेन न्यूनीकृतः इति निदर्शनत्वेन तया प्रकाश्यते। (Credit- photo. Matrubhumi News)


 अध्ययनरीतिः समग्रं परिष्क्रियते।
अनन्तपुरी> केरले विद्यालयाध्ययनसम्प्रदायस्य पादादिकेशान्तपरिवर्तनाय अन्तिमरूपं  कृतम्। शैक्षिकसम्प्रदायस्य परिष्करणेन सह भौतिकान्तरिक्षस्य च समग्रं परिवर्तनं भविष्यति। आगामि अध्ययनवर्षादारभ्य केरलेषु सार्वजनीनविद्यालयाः नूतनसम्प्रदाये भविष्यन्ति। अध्यापककेन्द्रीकृताध्ययनस्य स्थाने छात्रकेन्द्रीकृताध्ययनस्य प्राधान्यम् इत्यस्ति परिष्करणस्य सारः। (Credit- photo. Matrubhumi News)