OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 28, 2017

ब्रिट्टन् साम्राज्ये वासाय स्वकीयं स्थाननं नास्ति - ४०००
लन्टण्‌ > विकसित राष्ट्रमिति केवलं  ख्यातिः एव ।   ब्रिट्टन् साम्राज्ये वासाय स्वकीयं स्थानमेव येषां नास्ति, ते चतुसहस्राधिकाः। तेषां संख्या गतसंवत्सरात्  प्रतिशतं षोडश इति संवर्धिता। समाजक्षेममन्त्रालयस्य गणनानुसारं  इदानीं ४००० जनाः रथ्यायां स्वापं कुर्वन्ति।  एतादृशानां संख्या प्रतिसंवत्सरं वर्धते। अतिशैत्ये एतेषाम् अवस्था दुरितपूर्णा इति अन्वीक्षणं कुर्वता संस्थया उक्तम्। एते जनाः आपण द्वारेषु, रयिल् निस्थानेषु, हीनानां वस्तूनां निक्षेपार्थं स्थापितासु पेटिकासु च शयिताः वर्तन्ते। इयं दुरवस्था परिहाराय सर्वकारेण ५५० मिल्यन् पौण्टस्य नूतना योजना आयोजिता अस्ति इति सर्वकारीय जनाः वदन्ति।

 सैनिकानां समस्यापरिहाराय सेनाधिपस्य वाड्स् आप् संख्या। 
नवदिल्ली> सामाजिकवार्तामाध्यमद्वारा सैनिकाः अर्धसैनिकाः च सैनिकानां क्लेशान् प्रकाशिताः इत्यतः दुरितानुभूतानां परिहाराय  एव नूतनं वाट्स् आप् संख्या प्रकाशिता  +९१९६४३३००००८ एव संख्या। स्थल - सैनिकानाम् अधिपः जनरल् बिबिन् रावतेन एतादृशश्चयः स्वीकृतः। किन्तु संख्याधिकानां सैनिकानां याचिकापरिहाराय  एक स्य संख्या न पर्याप्ता इति सैनिकाः वदन्ति।