OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 1, 2017

क्षेमपद्धतीनां घोषणया नवसंवत्सरं स्वागतीकृत्य प्रधानमन्त्री; मुद्राप्रतिसन्धिमधिकृत्य मौनम् !।
नवदिल्ली> मुद्रानिर्मूल्यीकरणानन्तरम्  आभारतं प्रतीक्ष्यमाणानि वचांसि प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यात् अद्य बहिरागतानि। नववत्सरं पुरस्कृत्य राष्ट्रं प्रति कृते प्रभाषणे अनेकाः क्षेमपद्धतयः प्रख्यापिताः।
      निर्धनानां भवननिर्माणाय नवीनं पद्धतिद्वयम् उद्घुष्टम्। मध्यवर्गीयेभ्यः जनेभ्यः नवलक्षपर्यन्तानाम् ऋणानां वृद्धौ  प्रतिशतं चतुर्णां रूप्यकाणाम् अवहारः लभते। द्वादशपर्यन्तम् ऋणावधौ ३% अवहारस्य अर्हता अस्ति! कार्षिकर्णानां प्रथममासद्वयपर्यन्तं वृद्धिः नास्ति।

 विश्वप्रसिद्धः अत्युन्नतः सेतुः चीनाराष्ट्रे
बैजिंङ् >  अत्युन्नतम् अचलद्वयं संयोज्य निर्मितः सेतुः गतागताय उद्घाटितं चीनाराष्ट्रे । विश्वे स्थितेषु सेतुषु अत्युन्नतम् इति
प्रसिद्धस्य बैपाञ्चियाङ् सेतोः उद्घाटनेन द्वयोः प्रविश्ययोर्मध्ये सञ्चारदैर्घ्यं चतुर्वारं परिमितं भवेत् ।
नदीतलात् 565 मीटर् (1854 f )   उन्नतौ विद्यमानोऽयं सेतुःयुनान् ग्विसा  प्रविश्ये मिथःयोजयति ।अनेन मार्गेण यात्रां करोति  चेत् चतुर्घण्टादैर्घ्यं  एकघण्टापरिमितं भवेत् ।