OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 1, 2019

मम सुरक्षा कथं संस्थाप्यते ? यु पि आरक्षकान् विषमवृत्ते पातयित्वा विद्यालयछात्रा। 
  बराबङ्कि (यु पि)> विद्यालय छात्रेभ्यः आत्मविश्वासवर्धनाय उत्तरप्रदेशस्य आरक्षक-विभागेन आयोजितः कार्यक्रमः तेषां लज्जायाः कारणम् अभवत्।  बराबङ्किस्थे आनन्दभवन विद्यालये कक्ष्याचालनाय आरक्षकसेनायाः विभागाधिकारी समागतवान्। कक्ष्यायाः मध्ये एकादशकक्ष्यायाः छात्रायाः प्रश्नकरणस्य पुरतः विवर्णोजातः। 
  उन्नावो घटनाव्यवहारे कया याचिका समर्पिता सा यानदुर्घटनायां पतिता इति घटनाम् उन्नीय आसीत् छात्रायाः  प्रश्न:। आरक्षकाधिकारिणः विवर्णो जाताः इति दृष्ट्वा सह छात्राः हस्तताडनेन छात्रां अभिनन्दितवन्तः इति वार्ता-हरसंस्थया आवेदितम्। सुरक्षासप्ताहाचरणस्य अनुबन्धतया आसीत् आरक्षकाणां कक्ष्याचालनम्। नियमान् अनुसरन्तः पुरजनो भूत्वा संवर्धेत, यथाकालं प्रतिकरणान् प्रकाशयत इत्यादि उपदेशवाक्यानां मध्ये आसीत् ए. एस्. पि- एस् गौतमः छात्रायाः प्रश्नशरेण दग्‌धवान्। मुनिबकिद्वाल इति नामिका छात्रा एव प्रश्नम् अपृच्छत्। दोषी व्यक्तिः बलवान् चेत् सामान्य जनानां सुरक्षा कथं भविष्यति ?। ईदृशघटनासु अहं मम प्रतिषेध: ज्ञाप्यते चेत्‌ मम कृते सुरक्षा कथं संस्थाप्यते ? इत्यासीत् छात्रायाः प्रश्नः।