OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 19, 2019

उत्तरभारते अतितीव्रा वृष्टिः अनुवर्तते। 
दिल्यां जाग्रतानिर्देशः प्रख्यापितः।
    नवदिल्ली> अतितीव्रवृष्टिषु अनुवर्तमानेषु उत्तरभारतराज्येषु अधिकनाशाः आवेदिताः।  हिमाचलप्रदेशः, हरियाणा, पञ्चाब्, उत्तरप्रदेशः, राजस्थानं, उत्तरघण्डं इत्येतेषु प्रदेशेषु आपन्नेन वृष्टिपाते ५० संख्यायातः अधिकजनाः कालकबलीभूताः। दिल्ली प्रदेशे यमुनानद्याः जलप्रतलं समुन्नतं जातम्। अतः समीपवासिनः गृहं परित्यज्य सुरक्षितस्थानं गन्तुम् निर्दिष्टाः। हिमाचलप्रदेशे भूस्खलनेन वृष्ट्यनुबन्ध अपघातेन च २२ जनाः हताः। षिम्ला कुलुमणालि, माण्डि मण्डलानि एव अतिवृष्ट्या जलोपप्लवेेन च अधिकतया बाधितानि।  मेघविस्फोटेन १७ जनाः मृताः। संख्याधिकाः अप्रत्यक्षाः जाताः।