OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 24, 2019

प्राक्तनकेन्द्रमन्त्री अरुण् जैट्लि दिवङ्गतः। 
  नवदिली> भा ज दलस्य वरिष्टनेता प्राक्तनधनकार्यमन्त्री अरुण् जैट्ली (६६) दिवङ्गतः। नवदिल्लीस्थे एयिम्स् आतुरालये अद्य मध्याह्ने १२.०७ वादने आसीत् निधनत्वम्। सप्ताहात्पूर्वतः श्वसनयन्त्रस्य साहाय्येन तस्य जीवप्रक्रिया अनुवर्तिता आसीत्। आगस्ट् मासस्य नवमदिनाङ्के अनुभूतेन श्वासक्लेशेन सः आतुरालयं प्रावेशयत् । राट्रपतिः रामनाथकोविन्दः विविध राजनैतिकदलनेतारः च गतदिनेषु महोदयं सन्दर्शितवन्तः आसन्। महोदयस्य अन्त्ययष्टिः रविवासरे निगंबोधघट् श्मशाने भविष्यति।