OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 27, 2019

काश्मीरस्य समस्यापरिहाराय माध्यस्थं न आवश्यकम् - मोदी, स्वाभिमतं परिवर्त्य ट्रम्पः।

  बियारिट्स्> भारतपाकिस्थानयोः मध्ये उभयपक्षसंबन्धिसमस्या एव इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अमेरिकस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मिलित्वा सम्पन्नायां सन्दर्शनवेलायाम् आसीत् मोदिना स्वस्य अभिमतम्  एवं प्रकाशितम्। फ्रान्सस्य बियारिट्स् नगरे आयोजिते G7 शिखरसम्मेलने आसीत् उभयोः चर्चा।   उभयराष्ट्रयोः चर्चया समस्यापरिहाराय प्रयत्नं करणीयम् इति ट्रम्पेन स्वस्य अभिमतम्  अपि प्रकाशितम्। १९४७तः पूर्वं भारतं पाकिस्थानः च एकं राष्ट्रम् आसीत्। मम विश्वासः अस्ति यत्  आवयोः समस्याः मिलित्वा संभाष्यते चेत् परिहर्तुं शक्यते इति। एवं नरेन्द्रमोदी स्वस्य अभिमतः अपि ट्रम्पस्य पुरतः प्रकशितवान्।