OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 10, 2019

केरले पुनरपि अन्यत्र महान् भूभ्रंशः , उपचत्वारिंशत् गृहाणि निर्मार्जितानि। 

अतिवृष्टिदुरिते ५० मरणानि , बहवः अप्रत्यक्षाः। 
अधिकानि समाश्वासशिबिराणि आरब्धानि। ७ जनपदेषु अतिजाग्रता। 
कोच्ची >  केरले अतिवृष्टिदुरन्तः अनुवर्तते। गतदिने मलप्पुरं जनपदस्थे कवलप्पारा प्रदेशे महान् मृत्भ्रंशः सम्पन्नः। रात्रौ सम्पन्नस्य दुरन्तस्य व्याप्तिः अनिर्णीता वर्तते। विलम्बेनासीत् कवलप्पारादुन्तमधिकृत्य बाह्यलोकैः विज्ञातम्। रक्षाप्रवर्तकाणां लक्ष्यस्थानप्राप्तिरपि दुष्करमासीत्। अनवरतं वर्षती वृष्टिः मुहुर्मुहुः जायमानः मृद्भ्रंशश्च रक्षाप्रवर्तनं दुष्कारयति। सैन्यस्य सेवनम् अपेक्ष्यमाणमपि दुरन्तभूमिं प्राप्तुं न शक्नोति। 
  आहत्य ५० मरणानि विज्ञापितानि। राज्ये विविधेषु जनपदेषु ७३८ दुरिताश्वासशिबिराणि आरब्धानि। ६४,०१३ जनाः शिबिरेषु अभयं प्राप्तवन्तः सन्ति। कोच्ची अन्ताराष्ट्रविमाननिलयः रविवासरपर्यन्तं पिहितः।