OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 15, 2019

"प्रप्रथमः शस्त्रवैद्यः सुश्रुतः ; सङ्गणकयन्त्राणि भाषन्ते चेत् तस्य कारणं संस्कृतम् - केन्द्रमन्त्री। 
केन्द्रमन्त्री रमेश् पोख्रियाल !
अद्य संस्कृतदिनम्। 
 मुम्बई >  "भविष्यत्काले भाषमाणानि सङ्गणकयन्त्राणि साक्षात्करिष्यन्ते चेत् तदर्थं निर्णायकं योगदानं संस्कृतभाषया कृतमिति 'नासा'संस्थया अपि अङ्गीकृतम्। यतः विश्वे विद्यमाना एका शास्त्रीया भाषा  संस्कृतम् एव।" - केन्द्रस्य मानवविभवशेषिविकासमन्त्रिणः रमेश् पोख्रियाल् वर्यस्य एव इमाः वाचः। मुम्बई  ऐ ऐ टि संस्थया आयोजिते बिरुददानकार्यक्रमस्य उद्घाटनं कुर्वन् भाषमाणःआसीत् सः।
  यथा उच्चार्यते तथा लिख्यमाणा भाषा भवति संस्कृतम् इत्यतः भाविनि भाषमाणानां सङ्गणकयन्त्राणां साक्षात्काराय संस्कृतमेव अत्यन्तमुपयुज्यमाणा भाषा इति नासया निर्णीतम्। विश्वस्य प्रप्रथमः शस्त्रवैद्यः आयुर्वेदाचार्यः सुश्रुतमहर्षिरित्यपि केन्द्रमन्त्रिणा उक्तम्। कणिका तन्मात्रा इत्यादिविषयेषु चरकमहर्षिणा गवेषणं कृतमिति तेन सुस्मारितम्।