OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 13, 2019

"विमतानि तर्काः न भवेयुः" - चीनां प्रति भारतविदेशकार्यमन्त्री। 
भारतविदेशकार्यमन्त्री जयशङ्करः चीनाविदेशकार्यमन्त्री वाङ् यि च।
 भारत-चीनाबन्धः आगोलस्थिरतायाः हेतुर्भवेत्। 
बीजिंग् > भिन्नाभिप्रायाः आवयोर्मध्ये संग्रामकारणं मास्तु इति दृढमतिः द्वयोः     राष्ट्रयोः सहवर्तित्वबन्धे परमप्रधानमिति भारतस्य विदेशकार्यमन्त्री एस् . जयशङ्करः चीनराष्ट्रम् उद्बोधितवान्। चीनासन्दर्शनवेलायां चीनायाः विदेशकार्यमन्त्री तथा राज्यसदस्यः वाङ् यि इत्यनेन सह कृतायां चर्चायामासीत् जयशङ्करस्य परामर्शः। जम्मूकाश्मीरस्य सविशेषपदनिरासे चीनायाः विमतं प्रस्तुतमपि उभयराष्ट्रबन्धं शक्तीकर्तुं निर्णयः अभवत्।
  भारतचीनासहयोगदृढीकरणार्थं सन्धिचतुष्टये जयशङ्करः वाङ् यिश्च हस्ताक्षरं कृतवन्तौ। सांस्कृतिक-स्वास्थ्यक्षेम-कायिक-पुरावस्तुप्रबन्धकार्यमण्डलेषु आसीत् हस्ताक्षरीकरणमिति विदेशकार्यमन्त्रालयेन स्पष्टीकृतम्।