OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 6, 2019

पुनरपि वैदेशिका तैलनौका संगृह्य इरानः - होर्मुस् सागरमार्गः सङ्घर्षभरितो जातः।
   डेहरान्> पेर्स्यस्य उपसागरस्य सङ्घर्षः तैलेन सिञ्यित्य इरानेन अन्या एका तैलनौकाऽपि ग्रहीता। इरानस्य वार्तामाध्यमेन इयं  वार्ता आवेदिता। इरान् रेवल्यूषणरि गार्ड् कोर्प्स् इति रक्षिदलेन महानौकाग्रहणं कृतम् इति तैः आवेद्यते। विदेशीयाः सप्तकर्मकराः अपि नौकया सह बद्धाः सन्ति। नौकेयं कस्य राष्ट्रस्य इति आवेदने नास्ति। महानौकायां ७००००० लिट्टर् मितम् इन्धनम् अस्ति इति इरानियन् दूरदर्शनमाध्यमेन वदति। 
   समुद्रमार्गः उल्लङ्घितः इति उक्त्वा  इरानेन  इतःपूर्वं ग्रहीता बिट्टणस्य महानौका इदानीमपि इरानस्य पाश्वे भवतिI