OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 12, 2019

अतिवृष्टिदुष्प्रभावे षट् राज्यानि। 
नवदिल्ली >  साप्ताहिकं यावत् अनुवर्तमाना अतिवृष्टिः , प्रचण्डवातः, जलोपप्लवादयः भारते षडधिकेषु राज्येषु दुरन्तकारणाय अभवन्। इतःपर्यन्तं द्विशताधिकाः जनाः मृत्युमुपगताः। असंख्याः अप्रत्यक्षाः अभवन्। भूविच्छेदैः जलोपप्लवेन च महान्तः नाशनष्टाः जाताः। 
  केरलं, कर्णाटकः, महाराष्ट्रं, गुज्रराज्यं, मध्यप्रदेशः, आन्ध्रप्रदेशः इत्येतेषु राज्येषु तीव्रः सर्वनाशः अभवत् । तमिल नाट्, गोवा, ओडीषा राज्येषु च अतिवृष्ट्या जनजीवनं दुरितमयमस्ति। सर्वेषु राज्येषु देशीयदुरन्तनिवारणसेना, सैन्यः सन्नद्धसेवासंघटनाश्च दुरन्तमुखेषु सक्रियमाणाः सन्ति। 
  कर्णाटके १८ जनपदानि जलनिमग्नानि। उत्तरकर्णाटकं, सानुप्रदेशः, तीरप्रदेशः इत्येतस्थेषु जनपदेषु वृष्टिदुष्प्रभावः अतिरूक्षतया अनुवर्तते। ३१ जनानां जीवहानिः अभवदिति आधिकारिकनिर्णयः। कृष्ण-कावेरीत्याद्याः सर्वाः नद्यः तटातिशयन्त्यः प्रवहन्ति। 
  गुजराते ३१ मरणानि। राज्ये स्थितिः आशङ्काजनकः वर्तते। कच्च्, सौराष्ट्र मण्डलेषु त्रिदिवसीया वृष्टिः अनुस्यूता वर्षति। २० धीवराः अप्रत्यक्षाः। 
  महाराष्ट्रं आश्वासतीरं प्राप्नोति। तत्र वृष्ट्याः शमनमनुभूतम्। प्रलयजलं प्रतिगन्तुमारब्धम्। किन्तु कोलाप्पुरं, साङ्ली, सतारा इत्यादिषु मण्डलेषु पृथक्भूताः जनाः इदीनीमपि महान्तं दुरितमनुभवन्ति। ३० मरणानि दृढीकृतानि। २०० मार्गाः ९४ सेतवश्च रुद्धाः सन्ति।