OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 18, 2019

काश्मीर् विषयः - रक्षासमित्यां भारतस्य नयतन्त्रविजयः। 
 नवदिल्ली >  ऐक्यराष्ट्रसभायाः रक्षासमित्यां काश्मीर् विषयमुन्नीतवत्  पाकिस्थानराष्ट्रं चर्चायां प्रायेण पृथकीकृतम्। अन्ताराष्ट्रसमूहस्य सहयोगः भारताय लब्धः। चीनं विना सर्वः राष्ट्रसमूहः भारतानुकूलं पदं स्वीचकार।काश्मीरविषयः भारतपाकिस्थानयोः उभयपक्षसमस्या भवति, अतः परिहारः उभयोः राष्ट्रयोः चर्चया एव करणीयः इत्यासीत् भूरिशानाम् अङ्गराष्ट्राणां मतम्। 
  विषये अस्मिन् भारतस्य उपष्टम्भः अखण्डनीयः निस्तर्कितश्चासीत्। पाकिस्थानस्य वादमुखानि खण्डितखण्डनरीत्या भारतेन प्रतिरुद्धम्। यू एन् रक्षासमित्यां भारतस्य स्थिराङ्गः सय्यिद् अक्बरुद्दीन् आसीत् नायकः।