OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 21, 2019

चन्द्रयानं - २ चान्द्रपथं प्रविष्टम्। 
    बङ्गुलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणपेटकं - चन्द्रयानं २ नामकं - निर्णायकं पदमतीत्य चन्द्रस्य भ्रमणपथं प्राप्तम्। गतदिने प्रभाते ९.०२ वादने पेटकस्य द्रवीकृतयन्त्रं १७३८ निमेषान् प्रज्वाल्य एव दौत्यस्य विजयप्राप्तिः।
  चान्द्रपथे यानस्य दिशाक्रमीकरणं अद्य आरभ्यते। सेप्तम्बरमासस्य द्वितीये दिने पेटकस्य 'लान्डर्' नामकम् अवतरणयन्त्रं विच्छिद्यते। ततः लान्डरस्य सञ्चारपथे परिवर्तनं कृत्वा चन्द्रस्य ३५ कि मी दूरपरिमितं समीपं प्रापयित्वा अवतारणाय पेटकं सज्जीकरिष्यति। सेप्तं ७ दिनाङ्के अस्ति चन्द्रयानस्य चन्दंरोपरितलस्पर्शः।