OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 9, 2019

काश्मीरे केन्द्रशासनम् अल्पकालिकम् प्रधानमन्त्री। 
नवदिल्ली >  शासनसंविधानस्य ३७० तमानुच्छेदस्य निरासेन जम्मुकाश्मीरे आयोजितं केन्द्रशासनम् अल्पकालिकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। काश्मीरम् अभिलक्ष्य पाकिस्थानेन अनुवर्तमानानि भीकरप्रवर्तनानि प्रतिरोद्धुम् अनेन पदक्षेपेण शक्यते। केन्द्रसर्वकारस्य अयं पदक्षेपः काश्मीरस्य नवयुगप्रसूतेः कारणभूत इति नरेद्रमोदिना अभिमानितम्।
  गतदिने दूरदर्शनद्वारा कृतेन राष्ट्राभिसम्बोधनेनैव प्रधानमन्त्रिणा तस्याभिमतं प्रकाशितम्। काश्मीरं भारतविनोदसञ्चारस्य राजधानीं कारयितुं शक्यते इति सः उक्तवान्।