OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 13, 2020

 रोजगारयोजना - कर्मकराणां इ पि एफ् अंशं पूरयितुं २२८१० कोटि दीयते।

 नवदिल्ली> केन्द्रसर्वकारेण नूतनतया अवतारितायां कर्मयोजनायां आर्थिक-साहाय्यप्रदानाय २२८१० कोटि रूप्यकाणि प्रदातुं निश्चिता अस्ति इति मन्त्रिण्या निर्मलासीतारामेण उक्तम्। आत्मनिर्भरभारत- रोजगार योजनायाम् एव समाश्वासः लभते। बुधवासरे मेलिते मन्त्रिसभोपवेशने अंशदानाय निर्णीतः। इ पि ए फ् ओ मध्ये पञ्चीकृतासु संस्थासु नूतनतया कर्मलब्धानां कर्मकराणं इ पि एफ् अंशः वर्षद्वयं यावत् सर्वकारः पूरयिष्यति। २०२०

ओक्टोबर् मासतः २०२१ जूण् ३० दिनाङ्कपर्यन्तं नूतनतया कर्मसु नियुक्तानां कृते सहाय्यं विधास्यति। कोविड् रोगकाले कर्मविनष्टेभ्यः तेषां पुनर्नियुक्तिः अपि नूतनत्वेन परिगण्य आनुकूल्यं लप्स्यते। कोविड्काल समस्या-परिहाराय सर्वकारेण अयोजिता नूतना योजना भवति इयम्।