OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 8, 2020

 केरले पञ्चायत्तुनिर्वाचनस्य प्रथमचरणमद्य। 

   अनन्तपुरी> केरलराज्ये त्रितलपञ्चायत्त् शासनसमित्यर्थं सामान्यनिर्वाचनम् अद्य समारभते। १४ जनपदेषु चरणत्रितयेनैव निर्वाचनं विधत्ते। तत्र प्रथमसोपाने तिरुवनन्तपुरं, कोल्लम, आलप्पुष़ा, पत्तनंतिट्टा, इटुक्की जनपदेषु अद्य निर्वाचनं विधास्यति। 

  कोविड्मानदण्डान् परिपाल्य मतदानं समर्पयितुं सर्वाणि सज्जीकरणानि विहितानि। प्रभाते  सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं भविष्यति। कोविड्बाधितानामपि मतदानं कर्तुं व्यवस्था कल्पिता अस्ति।