OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 17, 2020

 केरलस्य त्रितलपञ्चायत्तनिर्वाचनं - विजयरथे वामदलसख्यम्। 

   कोच्ची> केरले चरणत्रयेण सम्पन्ने त्रितलप्रादेशिकशासनसमितिनिर्वाचने सि पि एम् नेतृत्वे विद्यमानस्य वामदलजनाधिपत्यसख्यस्य विजयप्राप्तिः। ९४१ पञ्चायत्तशासनसमितिषु ५१४ संख्याकं वामदलसख्येन प्राप्तम्। कोण्ग्रस्दलेन नेतृत्वमावहता यू डि एफ् सख्येन ३७५ समित्यः प्राप्ताः। २३ ग्रामपञ्चायत्तसमित्यः भाजपा दलनेतृत्वे एन् डि ए सख्येन  प्रशासननं करिष्यन्ते। २९ ग्रामान् इतरे च प्रशासयिष्यन्ते।

 १५२ ब्लोक् पञ्चायत्तसमितिषु १०८ समित्यः  तथा १४ जिल्लापञ्चायत्तसमितिषु ११ च वामदलेन प्राप्ताः। किन्तु ८६ नगरसभासु ४५ संख्याकं प्राप्य यू डि एफ् सख्यः स्वशक्तिं प्रकटयामास।