OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 30, 2020

 कोविड्मरणानि युगलत्रितयमभ्युपगम्य रूस् राष्ट्रम्। 

   मोस्को> रूस् राष्ट्रे कोविड्मरणानि पूर्नप्रख्यापितात् त्रिगुणितमधिकं जातानीति दृढीकरणम्।   रूस् राष्ट्रस्य उपप्रधानमन्त्री तत्यान गोलिकोवा इत्येष एव ईदृशमभ्युपगमं कृतवान्। ५५,००० जनाः कोविड्बाधया मृताः इत्यासीत् राष्ट्रस्याधिकारिकप्रस्तावः। 

   किन्तु १.८९ लक्षं जनाः मृताः इति नूतनः वृत्तान्तः। अनेन यू एस्  ब्रसीलराज्ययोरनन्तरं कोविड्मृत्युसंख्यायां रूस् तृतीयं स्थानं वहति। रूस्राष्ट्रेण स्वकीयविकसितस्य प्रत्यौषधस्य 'स्फुट्निक्-५' नामकस्य सूचीप्रयोगः तत्र आरब्धः अस्ति।