OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 15, 2020

जिद्दायाम् इन्धनयुतमहानौकायां स्फोटनं - भीकराक्रमणमिति सौदी।

   जिद्दा> सौदि अरेबिया राष्ट्रे जिद्दा महानौकानिलये इन्धनपूरेणायां महानौकायां सोमवासरे महत्स्फोटनमभवत्। भीकराक्रमणमेव प्रचलितमिति सौदी अरेबियायाः ऊर्जमन्त्रालयेन निगदितम्। स्फोटकवस्तुपूरितं नौकायानमुपयुज्य आक्रमणं कृतम्।  यस्यकस्यापि प्राणहानिः व्रणः वा नाभवदिति सूच्यते। 

   इन्धनावतारणाय महानौकायां यथास्थानं सज्जीकृतायां भीकराक्रमणमभवत्। झटित्येव अग्निशमन-सुरक्षासेनयोः नेतृत्वे अग्निशमनप्रक्रियाः समारब्धाः इति ऊर्जमन्त्रालयेन निगदितम्।