OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 25, 2020

चलनचित्रगीतस्य संस्कृतानुवादः सामाजिकमाध्यमेषु नूतनतरङ्गमुद्पाद्यते।

 तिरुवनन्तपुरम्> मलयाळभाषायां प्रचुरप्रचारमाप्तं नूतनचलच्चित्रगीतमस्ति 'किं किं किं' इति गीतम्। मलयालभाषायाः प्रियनायिका मञ्जु वारियर् एवास्यालापनमकरोदिति अस्याः जनप्रियतायाः प्रमुखं कारणमस्ति। गानमिदं सामाजिकमाध्यमेषु इदानीं तरङ्गानुत्पाद्य प्रचुरप्रसारमाप्नोति।  अस्मिन्नवसरे एव Shibus Sanskrit इति यू टूब् सरणी  livesanskrit संघस्य सहयोगेन अस्य संस्कृतानुवादमादायागच्छति। केरल राज्ये आक्कुलं केन्द्रीयविद्यालयस्य संस्कृताध्यापकः Livesanskrit संघस्य सदस्यश्च श्री षिबुकुमारः अस्य संस्कृतानुवादं व्यदधात्।

आक्कुलं केन्द्रीयविद्यालयस्य छात्रा तथा विश्वाभिलेखविजेत्री चलच्चित्रगायिका च अदिति नायर् एवास्यालापनम् अकरोत्। Livesanskrit संघस्य सदस्यः श्री विनायकः सी बी अस्य सम्पादनम् अकरोत्। संस्कृतगानमिदमधुना जनहृदयेषु स्थानमावहत् सामाजिकमाध्यमानां प्रियतरं विराजते। 

गानश्रवणाय -https://youtu.be/Fk3gccQKDes