OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 6, 2020

 कृषकान्दोलनं कठिनतया अग्रे चरति; पञ्चमवारचर्चा अपि निष्फला। 

   नवदिल्ली> राष्ट्रराजधानिसीमाः स्तम्भयन् दशसहस्रमितैः कृषकैः सञ्चाल्यमाणं सप्ताहात् परमपि अनुवर्तमानं कृषकसंग्रामं समापयितुं सर्वकारेणायोजितः पञ्चमवारचर्चा अपि पराजिता। कर्षकद्रोहकरं विधेयकं प्रतिनिवर्तितव्यमिति निवेदने कार्षिकसंघटनासु स्थिरीभूतासु चर्चा निष्फला अभवत्। 

 प्रधानमन्त्री नरेन्द्रमोदी अपि समालोचनायाः कस्मिंश्चिदवसरे मन्त्रिभिः सह चर्चां कृतवानासीत्। प्रधानमन्त्रिणः पदक्षेपः  कृषकसंघैः स्वागतीकृतः अपि तस्य निर्देशाः निराकृताः। आलम्बमूल्यनिर्णये स्पष्टतां करिष्यति, विधायकसम्बद्धाः कृषकाणामाशङ्काः परिहरिष्यन्तीति मन्त्रिमण्डलेन स्पष्टीकृतं तथापि विधायकानि उपसंहरिष्यन्ति वा न वा इत्येकस्मिन् प्रश्ने कृषकसंघाः स्थिरीभूताः। 

  शनिवासरे अपि चर्चा अनुवर्तते इति सर्वकारेणोक्तम्। तथा च मङ्गलवासरे आराष्ट्रं कर्षकबन्द् नामकमान्दोलनं संयोजयितुं निश्चितम्। अधिकेभ्यः राज्येभ्यः अपि कृषकाः दिल्लीं प्राप्तुमारब्धाः च।