OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 27, 2020

 राष्ट्रस्य अल्पतमवयस्का महानगरसभाध्यक्षा केरलराजधान्याम्। 

   अनन्तपुरी> केरलराज्यस्य राजधानीनगरस्य शासनसभाध्यक्षपदमलङ्कर्तुं चिता २१ वयस्का आर्याराजेन्द्रः भारतस्य अल्पतमवयस्का महानगरसभाध्यक्षा इति विशेषणं चालङ्करोति। नगरस्थे पूजप्पुरा मुडवन्मुकल् नामकमण्डलस्य सदस्या भवति आर्या। इदानीं अनन्तपुर्यां 'ओल् सेयिन्ट्स्' कलालये द्वितीयवर्षीया बिरुदछात्रा अस्ति। 

  बालसंघस्य राज्यस्तरीयाध्यक्षा, एस् एफ् ऐ नामकविद्यार्थिसंघटनस्य जनपदोपाध्यक्षा तथा राज्यसमित्यङ्गश्च भवत्येषा। सि पि एम् राजनैतिकदलस्य अनन्तपुरीजनपदसमित्या एव महानगरसभाध्यक्षस्थानं प्रति आर्या निश्चिता। नगरस्य ४६तमं 'मेयर्'पदं तथा तृतीयं वनितामेयर् पदं च अलंक्रियते आर्याराजेन्द्रेण।