OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 26, 2021

 प्रधानमन्त्री नरेन्द्रमोदी स्वतन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। 

 प्रधानमन्त्री नरेन्द्रमोदी भारतस्य पञ्चसप्ततितमे तन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। बहुसंख्याकान् जनान्  एकस्मिन्नेव सूत्रे निबद्ध्य राष्ट्रगीतालपनकार्यक्रमः सांस्कृतिक  मन्त्रा लयेन आयोजितः अस्ति। अस्मिन् सदुद्यमे सर्वेषां जनानां भागभागित्वं तेन संप्रार्थितम्। 'मन की बात्'  इति नाम्ना आकाशवाण्या कृत-प्रतिमासिक-प्रभाषणपरम्परायाम् एव तेन इत्थं प्रोक्तम्। तदर्थं सांस्कृतिकमन्त्रालयः परिश्रमं कुर्वन्नस्ति। नूतनकार्यक्रमे सर्वे जनाः भागं स्वीकरिष्यन्ति इति प्रतीक्षामहे इति तेन उक्तम्। राष्टगीतालपनानन्तरं ' राष्ट्रगान इन्  नाम जालपुटमपि समारब्धमिति तेन उदीरितम्।