OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 24, 2021

चीनराष्ट्रे जातः प्रलयः भारताय मार्गदर्शकः भवेत् इति वैज्ञानिकाः।


देहरादूण्> प्रकृतिदुरन्तान् निवारयितुं भारतेन ऊर्जोत्पादकनयेषु परिवर्तनानि आनेतव्यानि इति वैज्ञानिकैः निगदितम्। चीनदेशे जातः प्रलयः भारताय जाग्रतासूचना एवेति वैज्ञानिकाः अभिप्रयन्ति। गतसहस्रसंवत्सराभ्यन्तरे जातासु अतिवृष्टिषु अतिविपुला भवति इयम्।  चीनादेशे सेण्ट्रल् हेन्नान् प्रविश्यायां भवति  घटनेयम्।  अतिवृष्ट्या जातेन प्रलयेन बहूनां जनानां जीवापायः अभवत्। सहस्रशः जनाः अन्यत्र नीतवन्तः च। बहवः सेतवः जलसंभरण्यः च जलसंभरणक्षमतां अतिक्रान्ताः।  जलाप्लावितनदीभ्यः जलं प्रवाहमार्गेषु व्यत्ययं कृत्वा  जलोपप्लवं नियन्त्रणाधीनं कर्तुं सैनिकाः प्रयतन्ते।