OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 20, 2021

 उत्तराखण्डे मेघविस्फोटे त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्।

      दहरादूण्>  उत्तराखण्डे मेघविस्फोटेन जातेन अतिवर्षेण जलोपप्लवेन च त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्। उत्तरकाशीजिल्लायामेव दुरन्तः जातः। अतिवर्षेण माण्डो ग्रामे बहूनि भवनानि जले निमग्नानि। अप्रत्येक्षु द्वौ स्त्रियौ, एकः पुरुषः, एकः शिशुः च अन्तर्भवन्ति इति राज्य-आपदा-प्रतिक्रिया-सेनायाः (State Disaster Response Force) निरीक्षकेन जगदम्बा प्रसादेन प्रोक्तम्। अपघातप्रदेशे रक्षाप्रवर्तनानि अनुवर्तन्ते। उत्तरखण्डे जूलाय् २१ तमदिनपर्यन्तं अतिवृष्टिः भविष्यति इति पर्यावरणनिरीक्षककेन्द्रेण पूर्वसूचना दत्ता। पश्चिमतीरे जूलाय् २३ तमपर्यन्तं अतिवृष्टिः भविष्यति। गतसप्ताहे उत्तरकाश्यां अतिवृष्टिकारणेन जातस्य मृत्स्खलनेन राजमार्गे गमनागमनं रुद्धमासीत्।