OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 28, 2021

 कोविड्व्यापनं २२ जनपदेषु अतितीव्रं भवति। 

  नवदिल्ली> केरलं समेत्य भारतस्य विविधराज्यानां २२ जनपदेषु कोविड्व्यापनम् अतितीव्रं वर्तते इति नीतिआयोगस्य सदस्यः डो.वि के पोल् वर्यः न्यवेदयत्। तीव्रव्यापनजनपदेषु सप्त केरले वर्तन्ते। अन्ये १५ जनपदाः उत्तरपूर्वीयराज्येषु भवन्ति। 

    केरलस्य कोविड्व्यापने नूतनतरङ्गस्य काचित् सूचना शङ्कत इति डो. पोलवर्येण उक्तम्। तत्र एकस्मात् कोविड्रोगिणः १.२ पुरुषं विषाणुः व्याप्यते। विषाणोः व्यापनमानमपि केरले अधिकाधिकमिति तेनोक्तम्।