OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 30, 2021

 पलास्तिक-मालिन्यानि उपयुज्य भारतेन ७०३ कि. मी दूरं राष्ट्रियमार्गः निर्मितः

नवदिल्ली> पलास्तिकमालिन्यानि उपयुज्य भारते ७०३ कि. मी दुरं राजकीयमार्गः निर्मितः। केन्द्र-यातायात-राजकीयमार्ग-विभागस्य मन्त्रिणा निधिन गड्गरिणा मन्त्रिसभायां प्रतिवेदितमिदम्।

   राजकीयमार्गस्य निर्माणे 'टार्' संयुक्तेन सह पलास्तिकमालिन्यान्यपि उपयोक्तव्यानि इति सर्वकारेण आदेशः प्रदत्तः अस्ति इति गड्करिणा उक्तवान्। पञ्चलक्षाधिका जनसंख्या यस्मिन् नगरे विद्यते तस्मिन् प्रदेशे ५० किलो मीट्टर् परिमितौ वृत्तपरिधौ पलास्तिकमालिन्यानि विशालमार्गनिर्माणाय उपयोक्तव्यानि इति मार्गनिर्माणनिर्देशे अस्ति इत्यपि तेनोक्तम्। २०१६ तम संवात्सरात् आरभ्य अयं निर्देशः प्रबलतया अस्ति। टार् संयुक्ते ६% तः ८% पर्यन्तं भागाःपलास्तिकस्य   भवन्ति। अनेन पलास्तिकेन जातान् दोषान् न्यूनीकर्तुं शक्यते। इदानीं ११ राज्येषु मार्गनिर्माणाय पलास्तिकमालिन्यानि उपयुज्यन्ते।