OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 21, 2021

 आमसोण् अध्यक्षःजेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति।

  वाषिङ्टण्> बाह्याकाशपर्यटनम् आलक्ष्य यात्रा न समाप्यते। शतकोटीश्वरः ब्रान्सण् महोदयः बाह्याकाशं गत्वा प्रत्यागमनानन्तरं आमसोण् अध्यक्षः जेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति। स्वस्य ब्लू ओरिजिन् नाम संघस्य आकाशबाणे सः अद्य बाह्याकाशपर्यटनं करिष्यति। चन्द्रे मनुष्यस्य प्रथमपदक्षेपस्य ५२ तमे वार्षिके एव जेफ् बेसोसः संघः च बाह्याकाशपर्यटनं करोति इति विशेषता च यात्रायाः अस्ति।१९६९ तमे वर्षे जूलाय् मासस्य  विंशतितमदिने एव मानवः प्रथमतया 

चन्द्रे पदक्षेपः कृतः। बाह्याकाश-पर्यटनसाध्यताः संवर्धनीयाः इत्येतदेव यात्रायाः लक्ष्यः। यूरि गगारिनः एव प्रथमतया बाह्याकाशं प्राप्तवान्। इदानीन्तनानि पर्यटनानि केवलं प्रतियोगितायै न। किन्तु भाविनि परम्परायाः बाह्याकाशयात्रां सुकरं कर्तुमेव इति जेफ् बेसोसेन प्रोक्तम्।